वाराणसी : काशी तमिल सहवर्तिन्याः संस्कृतेः प्रगाढ़तायै विहिता मां गंगायाः आरती
—गंगा आरतीं कृत्वा अभिभूतः तमिल-अतिथिः , दक्षिण भारतीय आस्थावन्तः केदारघट्टे स्वच्छतायां सहकारमकुर्वन् वाराणसी, 1 दिसंबरमासः (हि.स.)। तमिलनाडुकाश्योः प्राचीनसांस्कृतिकसभ्यतासम्बन्धानां उत्सवस्य काशी तमिल संगमम् इति चतुर्थसंस्करणस्य अवसरं प्रति
98e684d18aede42fef2907e783007cc6_1195121951.jpg


—गंगा आरतीं कृत्वा अभिभूतः तमिल-अतिथिः , दक्षिण भारतीय आस्थावन्तः केदारघट्टे स्वच्छतायां सहकारमकुर्वन्

वाराणसी, 1 दिसंबरमासः (हि.स.)।

तमिलनाडुकाश्योः प्राचीनसांस्कृतिकसभ्यतासम्बन्धानां उत्सवस्य काशी तमिल संगमम् इति चतुर्थसंस्करणस्य अवसरं प्रति सोमवासरे केदारघाटे तमिलअतिथिभिः नमामि गङ्गे इत्यस्य स्वयंसैवकैर् सह मिलित्वा माता गङ्गायाः आरती सम्यग् अकारि। भारतस्य सुखसमृद्ध्यर्थं माता गङ्गायाः आशीर्वादोऽपि याचितः। काशीतमिलसांस्कृतिकसाम्यस्य गाढीकरणाय माता गङ्गायाः पूजनं कृतम्। तस्मिन् समये केदारघाटमागतानां तमिलअतिथीनां हस्ताभ्यां गङ्गायाः शुचिता अपि अन्वभवत्।

काशीतमिलसंगमस्य ४.० इति विषय ‘चलो तमिल सीखें – करपोम् तमिल्’ इत्यस्य अन्तर्गतं केदारघाटे उपस्थितान् भक्तान् तमिलभाषायाः शब्दैः परिचितान् कृत्वा गङ्गातटे सुखानुभूतिः अनुभविता। आरोग्यभारतस्य अभिलाषया द्वादशज्योतिर्लिङ्गस्तोत्रस्य गङ्गाष्टकस्य च सामूहिकपाठानन्तरं सर्वे राष्ट्रध्वजं हस्ते गृहित्वा गङ्गाशुचिता पर्यावरणसंरक्षणम् इति दृढप्रतिज्ञां कृतवन्तः।

नमामि गङ्गे काशीक्षेत्रस्य संयोजकः राजेशशुक्लः अवदत्—काशी तमिलनाडु च उभौ शिवमयौ स्तः। काश्याः तमिलनाडोः च विश्वेश्वररामेश्वरयोः कृपादृष्टिः समाना वर्तते। सर्वत्र रामः, सर्वत्र महादेवः। काशी तमिलनाडु च सांस्कृतिकविरासतां साझां वहतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः अतुलनीयप्रयत्नेन तमिलसंगमम् भाषान्तरभेदं निवर्तयितुं ऊर्जा दत्तवन्। चतुर्थसंस्करणस्य अवसरः देशाय संदेशं दास्यति यत्—सर्वाः भारतीयभाषाः अस्माकं भाषाः, एषः च एकः भारतीयभाषाकुलस्य अंशः इति।

---------------

हिन्दुस्थान समाचार