Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणो निर्देशः, क्रयणकेंद्राणां संख्या 5000यावत् वर्धनीया , सुविधा ग्रामान् वसतीश्च यावत् प्राप्स्यति
लखनऊ, 1 दिसंबरमासः (हि.स.)।
मुख्यमन्त्रिणा योगिना आदित्यनाथेन निर्दिष्टम्—यत् धान–क्रय–केन्द्रेषु आगच्छन्तं प्रत्येकम् अन्नदातृ–कृषकस्य धानं निःशेषं क्रेतव्यम्, तथा च भुगतानं समये एव कृषकस्य खातं प्रति प्रत्यक्षरूपेण प्रेषयितव्यम्। सोमवासरे धान–क्रय–स्थितेः समीक्षोपवेशनं कुर्वन् सः अवदत् यत् धान–क्रयस्य गतिर्नित्यं तीव्रा भवेत् तथा कृषकाः कस्यापि प्रकारस्य क्लेशं न प्राप्नुयुः।
उपवेशनस्य समये अवगतं यत् अस्य वर्षस्य सामान्य–धानस्य एम् एस् पी 2369 रूप्यकाणि, ग्रेड्–A धानस्य 2389 रूप्यकाणि प्रति–कुण्टल–मूल्यम् निर्धारितम्; यत् गतवर्ष–तुलनायां 69 रूप्यकाणि अधिकम्। अधुना यावत् 4227 क्रय–केन्द्राणि सञ्चलितानि सन्ति। मुख्यमन्त्रिणा निर्दिष्टम्—क्रय–केन्द्राणां संख्या 5000 पर्यन्तम् वर्धनीया, यत् कृषकानां ग्राम–नगरनिवेशनेभ्यः निकटे एव सुविधा लभेत।
अधिकारिभिः सूचितं यावत् 30 नवम्बर् दिनाङ्कं 1,51,030 कृषकेभ्यः 9.02 लाख–मीट्रिक्–टन–धानस्य क्रयः सम्पन्नः, तथा 1984 कोटीरूप्यकातिरिक्त–राशिः प्रत्यक्षरूपेण कृषक–खातानि प्रेषिता। मुख्यमन्त्री पुनः अवदत् भुक्तौ विलम्बः कस्यापि स्तरस्य स्वीकर्तुं न युक्तः।
मुख्यमन्त्रिणा एतदपि निर्दिष्टम्—मिड्–डे–मील् तथा आंगनबाड़ी केन्द्रेषु फोर्टिफाइड्–चावलस्य आपूर्तिः अविरता सुनिश्चितव्या; अस्यार्थं पर्याप्ता उपलब्धिः भवेत्। एफ् आर् के इति द्रव्यस्य आपूर्तिः सुव्यवस्था भवतु इति वेंडर–संख्या वर्धनीया, तथा तत्र स्थिताः तांत्रिकाः बाधाः त्वरितम् निरस्यन्ताम्। यावत् 2130 मीट्रिक्–टन एफ् आर् के गुण–परीक्षायाम् उत्तीर्णम् इति सूचितम्।
मुख्यमन्त्रिणा क्रय–केन्द्रेषु आवश्यकता–अनुसारं मैन्–पावर् वर्धयितुं निर्देशाः दत्ताः। सः अवदत्—केन्द्रेषु संमर्दं न सञ्जायेत्, कृषकाः निराशाः न भवन्तु, एतत् प्रशासनस्य दायित्वम्। धान–उत्थान–प्रक्रिया, मिल्–मैपिंग्, अन्या प्रक्रियाश्च सरलीकर्तव्याः, यत् क्रय–प्रक्रिया सततम् सुव्यवस्था वर्तेत।
उपवेशने खाद–बीजयोः उपलब्धिः अपि चर्चिता। मुख्यमन्त्री स्पष्टतया अवदत्—कस्मिन् अपि जिल्लायां खाद–बीजयोः अभावः न भवेत् तथा कृषकाः तयोः सुगमतया लाभं प्राप्नुयुः। संबंधित–विभागाः भण्डार–आपूर्त्योः नित्यं समीक्षा–नियमनं च सुनिश्चिन्वन्तु।
हिन्दुस्थान समाचार