छत्तीसगढ़ राज्य बाल अधिकार संरक्षण आयोगः प्रदेशविषये षड् विश्वविद्यालयैस्सह हस्ताक्षरितवान् सहमतिपत्रम्
- रक्षक पाठ्यक्रम छात्राणां सुरक्षिताय भविष्याय सहायकं भविष्यति- मुख्यमंत्री विष्णुदेव सायः रायपुरम् 10 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणः विष्णुदेवसायस्य सन्निधौ मंगलवासरे सायं विलम्बेन रायपुरस्थिते मुख्यमन्त्रिनिवासकार्यालये छत्तीसगढ़राज्यबालअ
एमओयू हस्ताक्षर में शामिल मुख्यमंत्री साय मंत्री और विभागीय अधिकारी


- रक्षक पाठ्यक्रम छात्राणां सुरक्षिताय भविष्याय सहायकं भविष्यति- मुख्यमंत्री विष्णुदेव सायः

रायपुरम् 10 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणः विष्णुदेवसायस्य सन्निधौ मंगलवासरे सायं विलम्बेन रायपुरस्थिते मुख्यमन्त्रिनिवासकार्यालये छत्तीसगढ़राज्यबालअधिकारसंरक्षणआयोगस्य प्रदेशस्य च षट् विश्वविद्यालयानां मध्ये रक्षक पाठ्यक्रम इत्यस्य निमित्तं एम् ओ यू इति करारः सम्पन्नः। बालाधिकारसंरक्षणविषये आधारितः अयं अद्वितीयः पाठ्यक्रमः देशे स्वप्रकारे प्रथमः शैक्षणिको नवोन्मेषः इति आज बुधवासरे जनसम्पर्कविभागस्य अधिकारिणा सूचना प्रदत्ता।

अस्मिन् अवसरि मुख्यमन्त्री विष्णुदेवसाय उवाच—“रक्षक पाठ्यक्रमः विद्यार्थिनां सुरक्षितस्य उत्तरदायित्वयुक्तस्य च भविष्यस्य निर्माणे महत्वपूर्णं योगदानं दास्यति।” तेनोक्तं यत् अयं पाठ्यक्रमः युवकेभ्यः केवलं रोजगारसन्धीन् न दास्यति, अपि तु बालाधिकारसंरक्षणक्षेत्रे आवश्यकां विशेषज्ञतां अपि विकसित करिष्यति। तेनेदं अपि अवदत् यत् केचन बालकाः अज्ञानतः वा मोहिताः भवित्वा दूषितमार्गं यान्ति, यतः ते अबोधाः भवन्ति। तादृशान् बालकान् सम्यक् मार्गे स्थापयितुं अस्माकं सर्वेषां सामूहिकं दायित्वम् अस्ति।

मुख्यमन्त्रिणा उक्तं यत् गतद्विवर्षेषु राज्यसरकारा प्रधानमन्त्रिणः नरेन्द्रमोदिनः गारन्टीवाक्यानां अधिकांशं परिपूरितवती। कृषकाणां बकायाबोनसः, महिलानां कृते महतारीवन्दनयोजना, सर्वेषां कृते आवासयोजना—एते महत्वपूर्णसंकल्पाः साकारिताः। सः अवदत् यत् 350 अधिकैः प्रशासनिकसुधारैः सह छत्तीसगढ़ं सुशासनमार्गे शीघ्रतया अग्रे गच्छति, तथा सुशासन अभिसरणविभागस्य स्थापना अपि तेनैव हेतोः कृता।

मुख्यमन्त्रिणा ‘रक्षक पाठ्यक्रमम्’ अत्यल्पकालेन सिद्धीकृत्य विश्वविद्यालयेषु प्रवर्तयितुं यत्नं कृतवतीं आयोगाध्यक्षां डॉ वर्णिका शर्मा तस्याः दळं च अभिनन्दितम्।

महिला बालविकासमन्त्रिणी लक्ष्मी रजवाडे अवदत्—बालाधिकारसंरक्षणक्षेत्रे विस्तीर्णाः प्रयासाः आवश्यकाः। बालभिक्षाटननिरोधः, परित्यक्तबालकानां पुनर्वासः, अतिसंवेदनशीलविषयाणां समाधानम्—एते सर्वे अत्यन्तदुष्करा विषयाः। सा अवदत्—“अयं पाठ्यक्रमः संवेदनशीलान् सजगान् सेवा भावपूर्णान् युवान् निर्मातुं मीलस्तम्भः भविष्यति।” भविष्यात् छत्तीसगढ़राज्यं अस्मिन् क्षेत्रे अग्रगण्यं राज्यं भविष्यतीति अपि तस्याः मतम्।

उच्चशिक्षामन्त्री टंकरामवर्मा अपि पाठ्यक्रमम् ऐतिहासिकं निर्दिश्य उक्तवान् यत् एतत् छत्तीसगढ़स्य गौरवस्य विषयः। सः आयोगं सर्वे च विश्वविद्यालयान् पाठ्यक्रमस्य प्रवर्तनाय अभिनन्दितवान्।

अयं एकवर्षीयः स्नातकोत्तरः पी जी डिप्लोमा इन चाइल्ड राइट्स एंड प्रोटेक्शन नामकः पाठ्यक्रमः पण्डितरविशङ्करशुक्लविश्वविद्यालये रायपुरे, सन्तगहिरागुरुविश्वविद्यालये सरगुजायां, कुशाभाऊठाकरे पत्रकारिताजनसंचारविश्वविद्यालये रायपुरे, आञ्जनेयविश्वविद्यालये रायपुरे, एमिटीविश्वविद्यालये रायपुरे, श्रीशङ्कराचार्यव्यावसायिकविश्वविद्यालये भिलाईदुर्गे च प्रारम्भः भविष्यति।

---------------

हिन्दुस्थान समाचार