तपोवनं रक्षितुं मुख्यमन्त्रिणा दत्ताः आदेशाः – पर्यावरणविद् डॉ. प्रशान्तः
मुंबईनगरम्, १० दिसम्बरमासः (हि.स.)। ठाणेनगरस्य प्रसिद्धः पर्यावरणविशेषज्ञः डॉ. प्रशान्तः रवीन्द्रः सिनकरः नासिकस्थितस्य तपोवनप्रदेशस्य वृक्षच्छेदनप्रस्तावस्य विरोधेन कुम्भमहोत्सवासम्बन्धि कारणेन मुख्यमन्त्री देवेंद्रफडणवीसमहाभागाय विस्तीर्णं ज्ञापन
Cm orders save tapovan,dr Prashant


Cm orders save tapovan dr Prashant


मुंबईनगरम्, १० दिसम्बरमासः (हि.स.)। ठाणेनगरस्य प्रसिद्धः पर्यावरणविशेषज्ञः डॉ. प्रशान्तः रवीन्द्रः सिनकरः नासिकस्थितस्य तपोवनप्रदेशस्य वृक्षच्छेदनप्रस्तावस्य विरोधेन कुम्भमहोत्सवासम्बन्धि कारणेन मुख्यमन्त्री देवेंद्रफडणवीसमहाभागाय विस्तीर्णं ज्ञापनं समर्पितवान्। प्राप्तवार्ताम् अनुसारं मुख्यमन्त्रिकायालयेन तस्मिन् ज्ञापने तत्क्षणमेव संज्ञानं गृहीतम्, सम्बद्धं च प्रस्तावं वनविभागं प्रति प्रेष्य आवश्यकैः निर्देशैः सह त्वरितं कार्यवाहीकर्तुं आदेशाः दत्ताः।

तपोवनप्रदेशः नासिकनगरस्य फुफ्फुस-रूपेण परिगण्यते। कुम्भमहोत्सवस्य पूर्वसिद्धतासमये अत्र शतशः वृक्षाणां छेदनप्रस्तावः आगत्य नागरिकेषु प्रबलः आक्रोशः जातः। डॉ. सिनकरः ज्ञापने अवोचत् “कुम्भमेला पवित्रः; किन्तु सः प्रकृतेः मूल्येन न कर्तव्यः।” इत्युक्त्वा अन्यान् पर्यायान् उपायान् अपि सूच्य समर्पितवान्।

मुख्यमन्त्रिकायालयस्य एतत् संज्ञानग्रहणम् अतीव महत्वपूर्णम् इति मन्यते। वनविभागं प्रति प्रेषितेषु निर्देशेषु उक्तम् अद्य तपोवने वृक्षच्छेदनस्य सम्पूर्णः प्रस्तावः पर्यावरणदृष्ट्या पुनः अवलोकयितुं प्रक्रिया आरब्धा।

अस्य विकासस्य अनन्तरं, नासिकप्रदेशस्थेषु पर्यावरणविदेषु नागरिकेषु च हर्षः जातः। तपोवने वृक्षच्छेदनं कर्तव्यं वा नेति निर्णयः वनविभागस्य पुनर्विचारप्रक्रिया समाप्य स्पष्टीकरिष्यति। आशा च यत् निर्णयः पर्यावरणस्य विकासस्य च मध्ये सम्यग् संतुलनं नूतनां दिशां दास्यति।

ठाणेस्थितः पर्यावरणविद् डॉ. प्रशान्तः रवीन्द्रः सिनकरः अवदत् “सर्वकारः प्रकृतेः वरदानं रक्षितुं सकारात्मकं पादं स्थापयति इति हर्षस्य विषयः। सर्वकारनागरिकविशेषज्ञाणां संयुक्तप्रयत्नैव तपोवनस्य स्वाभाविकतां रक्षितुं वास्तविकां दिशां दास्यन्ति” इति।

हिन्दुस्थान समाचार / अंशु गुप्ता