Enter your Email Address to subscribe to our newsletters

नवदेहली, 9 दिसंबरमासः (हि.स.)। दिल्ली-प्रदेशस्य मुख्यमंत्री रेखा गु्प्ता मंगलवासरे भलस्वा-जहाँगीरपुरी-प्रदेशयोः स्थितानां आर्थिकदुर्बल-वर्गस्य गृहनिवेशानां निरीक्षणं कृतवती। सा अवदत् यत् पूर्व-सर्वकाराणां शासनकाले एतेषु गृहेषु विषये केवलं वचनदानमेव जातम्, किन्तु दीन-परिवाराणां हिताय वास्तविकं कार्यं न किञ्चन कृतम्।
मुख्यमंत्री उक्तवती यत् भलस्वा-प्रदेशे एते गृहाणि २०१६ तमे वर्षे निर्मिताः आसन्, किन्तु अनेकवर्षपर्यन्तं कस्यापि परिवारस्य कृते न आवंटिताः। सा अवदत् यत् २०१६ तः २०२५ पर्यन्तम् एते प्रकोष्ठाः जर्जरावस्थां प्राप्ताः, किन्तु पूर्व-सर्वकारेण एकः अपि गृहम् दरिद्र-जनाय न प्रदत्तः। देहली-सर्वकारस्य लक्ष्यं यत् वसतिषु वसन्तः सर्वे दीन-जनाः पक्कं निवासं लभेरन्।
निरीक्षणकाले मुख्यमंत्री निर्देशान् अदात् यत् एतत् गृहपरिसरं आधुनिक-सुविधाभिः योजनीयम्। सा अवदत् यत् अस्मिन् क्षेत्रे पार्किङ्-व्यवस्था, मार्केट्, ई-रिक्शा-चार्जिङ्-केन्द्रम्, ‘आयुष्मान्-आरोग्य-मन्दिरम्’, प्राथमिक-विद्यालयः, आङ्गनवाडी-केन्द्रम्, बालक-बालिकानां वृद्धजनानां च कृते पृथक्-पृथक् सुविधाः विकास्यन्ते। सर्वकारस्य योजना—एते जर्जरा प्रकोष्ठाः मॉडल्-बस्ती-रूपेण पुनर्विकसिताः करिष्यन्ते।
मुख्यमंत्री स्पष्टीकृतवती—सर्वकारः शीघ्रमेव पुनर्विकास-आवंटन-प्रक्रियां तीव्रतया प्रवर्तयिष्यति, येन लघुवसत्यां- वसन्तः जनाः सुरक्षितं सम्मानजनकं निवासं प्राप्नुयुः।
निरीक्षण-काले तया सह कैबिनेट्-मन्त्री आशीषसूदः, विधायकः दीपकचौधरी च तथा सम्बद्धविभागानां वरिष्ठ-अधिकारीणः उपस्थिताः आसन्।
----------
हिन्दुस्थान समाचार / अंशु गुप्ता