Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 दिसंबरमासः (हि.स.)।
दिल्लीमुख्यमन्त्री रेखा गुप्ता अवदत् यत दीपावली नाम प्रकाशोत्सवः यूनेस्को संस्थाया अमूर्तसांस्कृतिकनिक्षेपस्य प्रतिनिधिसूचौ स्वीकृतः इति प्रत्येकभारतीयस्य गौरवक्षणं जातम्। सा स्वस्य सामाजिकमाध्यमे एक्स नाम्नि एकं विडियो प्रकाश्य उक्तवती यत अस्माकं सहस्रवर्षप्राचीनाः सनातनपरंपराः दिव्यता सार्वभौमिकता च परं वैश्विकमञ्चं प्रति मान्यतां प्राप्तवन्तः।
मुख्यमन्त्री अवदत् यत एतत्सम्मानम् दीपावलौ विहितस्य प्रकाशस्य सद्भावस्य मर्यादायाः च शाश्वतमूल्यानां वैश्विकस्वीकारस्य प्रतीकं भवति। दीपावली केवलं कश्चन उत्सवः नास्ति अपि तु साऽध्यात्मद्योतना या शताब्दीयुगात् मानवजातिं सत्य आशा नैतिकता इति मार्गेषु अग्रे नयति। दिल्लीसरकारा अपि एतस्य ऐतिहासिकनिर्णयस्य हर्षपूर्णं स्वागतं करोति इति सा अवदत्।
मुख्यमन्त्री पुनरूचैः अवदत् यत प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकासं च विरासतं च इति संकल्पं एषा उपलब्धिः अधिकं सुदृढं करोति। योग कुंभ दुर्गापूजा गरबा इत्यादीनां सांस्कृतिकधरोहराणां पश्चात् अद्य दीपावलयेयं वैश्विकमान्यता अस्माकं सांस्कृतिकयात्रां अधिकं द्योतयति उज्ज्वलयति च।
सा यूनेस्को संस्थायै तथा प्रेम निरन्तरता चेन परंपरां पोषयन्तः ये सर्वे परिवाराः कर्मिणो भक्ताश्च तान् प्रति कृतज्ञतां व्यक्तवन्तः।
---------------
हिन्दुस्थान समाचार