Enter your Email Address to subscribe to our newsletters

नवदिल्ली 10 दिसम्बरमासः। प्रकाशस्य उत्सवः दीपावली इति यूनस्कोसंस्थायाः अमूर्तसांस्कृतिकनिक्षेपसूचौ प्रतिनिधिसूच्यां निबद्धा। एषो निर्णयः बुधवासरे यूनस्को संस्थायाः महत्वपूर्णायां सभायां निर्णीतः। प्रधानमन्त्री नरेन्द्रमोदी अस्य सिद्धेः अभिनन्दनं दत्वा एतत् पर्व भारतीयसभ्यतायाः आत्मा इत्यभिधाय निरदिशत्।
यूनस्कोसंस्थायाः विंशतितमं सत्रम् अष्टमदिसम्बरतः त्रयोदशदिसम्बरपर्यन्तं दिल्लीनगरस्थे रक्तदुर्गे आसीत्। अस्मिन् सत्रे दीपावली इति उत्सवः यूनस्को संस्था अमूर्तसांस्कृतिकनिक्षेपसूचौ निबद्धः इति घोषणां कृतवती। यूनस्कोसंस्थया एक्सपटले सूचना इयं प्रकाशितासीत्।
दीपावल्याः सूचीनिबन्धने प्रधानमन्त्रिणा नरेन्द्रमोदिना एक्सपटलमाध्यमेन लेखं प्रकाश्य प्रोक्तं यत् दीपावली अस्माकं संस्कृत्या लोकाचारेण च सह अत्यन्तं सम्बद्धा। सा अस्माकं सभ्यतायाः आत्मा। सा प्रकाशस्य धर्मस्य च प्रतीकभूता। यूनस्को संस्थायाः अमूर्तनिक्षेपसूच्यां निबद्धत्वेन अस्य पर्वणो वैश्विकप्रसिद्धिः आधिक्येन वर्धिष्यते इति।
विदेशमन्त्री एस जयशङ्करः अपि एक्स माध्यमेन हर्षं प्रकट्य उक्तवान् यत् दीपावल्याः असाधारणं सांस्कृतिकं धार्मिकं आध्यात्मिकं महत्वं लोकान् ऐक्येन सम्बद्धयितुं तदीयभूमिका विश्वमान्यतां प्राप्नोत्।
अधुना यूनस्कोसंस्थया मानवतायाः अमूर्तसांस्कृतिकनिक्षेपसूचौ भारतस्य पञ्चदश क्रियाः निबद्धाः सन्ति। तेषु कुम्भमेलापकः कोलकातायाः दुर्गापूजा, गुर्जरस्य गर्बानृत्यं, योगः वैदिकमन्त्रपाठपरम्परा रामलीला च अन्तर्भवन्ति।
हिन्दुस्थान समाचार