दिल्ली मेट्रोयाने महिलानां स्वास्थ्ये कल्याणे च विशेषतया अभियानं शुभारब्धम्
नव दिल्ली, 10 दिसंबरमासः (हि.स.)।केंद्रीयस्वास्थ्यमन्त्रालयेन विश्वस्वास्थ्यसंस्थायाः डब्ल्यू एच् ओ इत्यस्य सहयोगेन बुधवासरे दिल्ल्याः सुल्तानपुरमेट्रोस्थानके महिलानां कन्यकानां च स्वास्थ्यकल्याणकेंद्रितम् एकमासव्याप्तं विशेषम् अभियानं आरब्धम्। एतद
केंद्रीय स्वास्थ्य मंत्रालय महिलाओं के स्वास्थ्य एवं कल्याण के लिए अभियान की शुरूआत करते हुए।


नव दिल्ली, 10 दिसंबरमासः (हि.स.)।केंद्रीयस्वास्थ्यमन्त्रालयेन विश्वस्वास्थ्यसंस्थायाः डब्ल्यू एच् ओ इत्यस्य सहयोगेन बुधवासरे दिल्ल्याः सुल्तानपुरमेट्रोस्थानके महिलानां कन्यकानां च स्वास्थ्यकल्याणकेंद्रितम् एकमासव्याप्तं विशेषम् अभियानं आरब्धम्। एतदभियानं दिसम्बरमासात् जनवरिमासपर्यन्तं विविधानि मेट्रोट्रेनानि चयनितस्थानकानि च आसाद्य व्यापकजागरूकताक्रियां रूपेण सञ्चालितं भविष्यति।

अस्य प्रयत्नस्य अन्तर्गतं महिला सुरक्षा मानसिकस्वास्थ्य डिजिटलसमावेशनम् पी सी पी एन् डी टी विधिः टी बी उन्मूलनम् इत्यादिषु महत्वपूर्णविषयेषु सन्देशाः प्रदर्शिताः भविष्यन्ति, येन नित्यं मेट्रोमार्गेण यात्रिण्यो महिला कन्याश्च एतेषु विषयेषु अवगता भवन्तु।कार्यक्रमस्य उद्घाटनसमये केंद्रीयस्वास्थ्यसचिवा पुण्यसलिलाश्रीवास्तवा अवदत् यत् दिल्लीमेट्रो इव महत् सार्वजनिकपरिवहनजालं एतेषां सन्देशानां शीघ्रं प्रभावी च प्रसारणे अत्यन्तं महत्वपूर्णं कार्यं करिष्यति। तेनोक्तं यत् अस्य अभियानस्य माध्यमेन जागरूकतावृद्धिः भविष्यति तथा नगरे सर्वत्र स्थितानां महिलानां युवतीनां च सशक्तीकरणे अपि साहाय्यं भविष्यति।

सैव अवदत् यत् अस्य अभियानस्य उद्देश्यः राजधानीयात्रिकाणां मध्ये स्वास्थ्यसम्बद्धेषु महत्वपूर्णेषु विषयेषु संवादवृद्धिः, तथा महिलाभ्यः कृते सुरक्षितं जागरूकं सहयोगि च वातावरणं निर्मातुं अस्ति।

--------------------

हिन्दुस्थान समाचार