Enter your Email Address to subscribe to our newsletters

बरेली, १० दिसम्बरमासः (हि.स.)। उपमुख्यमन्त्री केशवप्रसादः मौर्यः बुधवासरे अतिथिगृहे पत्रकारसम्मेलने कांग्रेसपक्षं समाजवादीपक्षं च लक्ष्यीकृत्य तीक्ष्णं प्रहारं कृतवान्। सः आरोपं कृतवान् “ये स्वयमेव मतचौर्यं कृतवन्तः, ते अद्य परेषां प्रति दोषारोपणं कुर्वन्ति।” मौर्यः अवदत् मतचौर्यस्य साहाय्येनैव पण्डितः जवाहरलालः नेहरू देशस्य प्रथमः प्रधानमन्त्रि अभवत् तथा इन्दिरागान्धी अपि सांसदपदे स्थापिताऽभवत्।
सः अवदत् “एते एव कांग्रेसजनाः पूर्वं बाबासाहेबभीमरावअम्बेडकरस्य अपमानं कुर्वन्ति स्म, अद्य तु लोकतन्त्रस्य नाम्ना स्वार्थं साधयन्ति।” अखिलेशयादवं प्रति तुङ्गोक्तिमुक्त्वा उक्तवान् “प्रथमं ‘वन्देमातरम्’ इति ज्ञानं प्राप्य स्वदलेऽपि शिक्षय। भाजपा ‘वन्देमातरम्’ इति वदति, सर्वदा च वक्ष्यति।''
एस्एईआर् विषयं पृच्छितः सः अवदत्—भाजपा अनधिकप्रवेशं निरोद्धुं, वास्तविकमतदातॄन् संयोजयितुं च कार्यरतैव अस्ति। “भाजपाकर्मकर्ता दुष्कर्मं न कर्तुं शक्नोति; अन्यपक्षेषु तु सदाचारस्य अपेक्षा न कर्तुं शक्या” इति चोक्तम्।
अखिलेशस्य विपक्षे तीक्ष्णप्रहारं कृत्वा सः अवदत् “बिहारनिर्वाचनानन्तरं लालटोपीधारिणः बरेलीं प्रति न दृष्टाः। अवधं पराजिताः, मगधं पराजिताः, अद्य उत्तरप्रदेशेऽपि पराजयः, अन्ते स्वच्छता प्रति गमनमेव।”
कांग्रेसं समाजवादीपक्षं च कुटुम्बवादी इति निर्दिश्य मौर्यः अवदत्—“जनसेवकाः एव राजनीतौ स्थास्यन्ति, अन्येषां बहिःगमनमेव अनिवार्यम्।” राजनीति-अपराधीकरणस्य आरम्भं सपा कृतवती, तस्य समापनं भाजपा करोति इति अपि सः उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता