दिल्ली मेट्रोयाने महिलानां, बालिकानां च स्वास्थ्य कल्याणे एकस्य मासस्य अभियानं शुभारब्धम्
नवदिल्ली, 10 दिसंबरमासः (हि.स.)। केन्द्रीयस्वास्थ्यमन्त्रालयेन विश्वस्वास्थ्यसंस्थाया सहकार्येण बुधवासरे सुल्तानपुरमेट्रोस्थानकात् आरभ्य स्त्रीणां बालिकानां च स्वास्थ्यकल्याणकेन्द्रितं एकमासपर्यन्तं दिल्लीमेट्रोअभियानम् आरब्धम्। एतदभियानं दशजनवरी
एक माह लम्बे अभियान की शुरूआत करते हुए स्वास्थ सचिव


नवदिल्ली, 10 दिसंबरमासः (हि.स.)।

केन्द्रीयस्वास्थ्यमन्त्रालयेन विश्वस्वास्थ्यसंस्थाया सहकार्येण बुधवासरे सुल्तानपुरमेट्रोस्थानकात् आरभ्य स्त्रीणां बालिकानां च स्वास्थ्यकल्याणकेन्द्रितं एकमासपर्यन्तं दिल्लीमेट्रोअभियानम् आरब्धम्। एतदभियानं दशजनवरीपर्यन्तं प्रवर्तिष्यते। एतदभियानस्य माध्यमेन दिल्लीमेट्रोयात्रिकानां स्त्रीणां सुरक्षा स्वास्थ्यं मानसिकस्वास्थ्यसहायता डिजिटलविभेदस्य न्यूनीकरणं पी सी एण् डी एण् डी टी टी बी च इत्येतेषु विषयेषु जागरूकता प्रसार्यते।

अस्मिन् अवसरे स्वास्थ्यसचिवा पुण्यसलीला श्रीवास्तवा अवदत् यत यावत् तस्याः स्त्रियः स्वस्थाः न भवन्ति तावत् कश्चन परिवारो राष्ट्रं वा प्रगति कर्तुं न शक्नोति। एतदभियानं सशक्तमाध्यमं यतः अस्य माध्यमेन वयं सन्देशं सीध्रं जनानां समीपं नयामः।

सा अपि अवदत् यत टी बी जागरूकता डिजिटलविभेदं न्यूनीकर्तुं तथा पी सी एण् डी एण् डी टी अधिनियमस्य 1994 सम्बन्धिनः सन्देशाः मेट्रोकोचेषु अन्तर बहिः च प्रदर्शिताः सन्ति। लिङ्गनिर्धारणस्य चयनस्य च कृते अभिनवप्रविधीनां वर्धमानस्य उपयोगस्य विषये चिन्तां व्यक्त्वा सा अवदत् यत पूर्वे जनाः अल्ट्रासाउण्ड उपकरणमात्रे अवलम्बिताः आसन् इदानीं पुनः नूतनाः प्रविधयः प्रादुर्भवन्ति। एतेषां अवैधप्रथानां निरोधनं आवश्यकं तथा जनानां जागरूकता करणीयैव।

अस्मिन् अवसरे विश्वस्वास्थ्यसंस्थाया दक्षिणपूर्वएशियाराज्यकार्यालयस्य अधिकाऱ्या प्रभारी डा. कैथरीना बोह्मे अवदत् यत स्त्रीणां बालिकानां च स्वास्थ्यं विशेषतः मानसिकस्वास्थ्यं सर्वसमाजस्य कल्याणाय अनिवार्यम्। भारतसरकारा स्त्रीस्वास्थ्यसशक्तीकरणार्थं स्वस्थनारीसशक्तपरिवारअभियानं प्रधानमन्त्रिसुरक्षितमातृत्वअभियानं मिशनशक्ति निर्भयाकोषः आयुष्मानभारत योजना च इत्यादीनि निरन्तरं सुदृढीकुर्वन्ति।

कार्यक्रमे एकः सर्वस्त्रीब्याण्ड् प्रस्तुति दत्तवती ततः मान्याः अतिथयः जागरूकतासन्देशैः अलङ्कृतया मेट्रोयात्रया अभियाने प्रति सामूहिकप्रतिबद्धतां प्रादर्शयन्।

कार्यक्रमे स्वास्थ्यमन्त्रालयस्य संयुक्तसचिवा मीरा श्रीवास्तवा गीतू जोशी च तथा अन्ये वरिष्ठाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार