Enter your Email Address to subscribe to our newsletters

—विश्वविद्यालय परिवारः अतिथीनां वैदिक मंत्रोच्चारेण सह कृतं स्वागतम्
वाराणसी,10 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां प्रचलति काशीतमिलसंगमस्य चतुर्थसंस्करणे भागग्रहणार्थं तमिलनाडुदेशात् आगताः शिक्षकदलाः बुधवासरस्य अपराह्णे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयपरिसरे भ्रमणं कृतवन्तः। ते परिसरस्थं ऐतिहासिकं मुख्यभवनं दृष्ट्वा अत्यन्तं विस्मिताः सन्तः अभिभूतभावेन आविष्टाः बभूवुः। दलैः ज्योतिषशास्त्रस्य वेधशालां ऐतिहासिकं सरस्वतीभवनपुस्तकालयं च स्थिताः दुर्लभाः पाण्डुलिपयः निरुक्ताः। पुस्तकालयस्य विस्तारितभवने स्थितानां त्रयोलक्षाधिकानां दुर्लभग्रन्थानां सूक्ष्मावलोकनं अपि कृता।
अस्मिन्नेव काले दलस्य नेतृत्वं कुर्वन् डॉ गोविन्दराजन नामकः विद्वान् अवदत्— “काशीं अवगन्तुं देववाणीसंस्कृतस्य अस्मिन् मन्दिरे आगन्तव्यम्। अद्य अस्माकं दलाय अत्र आगत्य गौरवभावना जाताऽस्ति। अत्र सर्वस्य भारतस्य आत्मा निहिता वर्तते” इति। तस्मात् पूर्वं तमिलशिक्षकानां विश्वविद्यालये वैदिकमन्त्रौच्चारणेन भव्यः सत्कारः कृतः।
स्वागते कुलपतिः प्रो बिहारीलालशर्मा अवदत् यत् प्रधानमंत्री नरेन्द्रमोदिना संपूर्णभारतस्य ऐक्यस्य योजने कल्पना काशीतमिलसंगमस्य माध्यमेन कृता। अस्य कार्यक्रमस्य द्वारा राष्ट्रभावना, पारस्परिकसद्भावः, स्वाभिमानः च सर्वत्र जागरूकः भवति। एषा तस्य दूरदृष्टेः फलसिद्धिः यत् जनाः अतीव उत्साहेन उमंगेन सौहार्दपूर्णवातावरणेन च राष्ट्रभावेन अस्मिन् कार्यक्रमे संलग्नाः भवन्ति। अद्य उत्तरदक्षिणयोः भेदभावः शनैः शनैः शम्यते, भारतीयसंस्कृतिः संस्काराश्च भारतीयभावनां प्रति जनमनसि पुष्पिताः पल्लविताः च भवन्ति। अद्य उभे प्रदेशे एकभावेन संकल्पसाधने निरतौ स्तः।
कुलपतिः पुनरुवाच— “यूयं तमिलनाडुतः काशीम् आगच्छथ तथा चात्र भारतीयसंस्कृतेः संरक्षणं संवर्धनं च कुर्वन्तः भारतम् अधिकं सुदृढं कुर्वन्तः उत्तरदक्षिणयोः भेदं निरस्य विविधतायाम् एकतां स्थापयन्तः अग्रे प्रसरथ।” तमिलदलेन सह काशी तमिल संगमम् चतुर्थस्य संयोजकः डॉ कुप्पाविल्वेशस्वामी, बी एच यू इत्यस्य डॉ जगदीशन च उपस्थितौ आस्ताम्।
---------------
हिन्दुस्थान समाचार