यातायातं निरोद्धेन विना प्रथमवारं सम्पन्नं भवति रेलस्थानकपुनर्विकासः - रेलमन्त्री
नवदेहली, १० दिसम्बरमासः (हि.स.)। रेलस्थानकेषु यात्रिसुविधासम्बद्धेषु विषयेषु लोकसभायां प्रवृत्तायां चर्चायां रेलमन्त्री अश्विनी वैष्णवः अवदत् स्थानकपुनर्विकासः अत्यन्तं जटिलः प्रक्रियाविशेषः अस्ति, यस्मिन् विना यातायातनिरोधं विशालस्तरे निर्माणकार्य
रेल मंत्री अश्विनी वैष्णव बुधवार को लोकसभा में प्रश्नकाल के दौरान उत्तर देते हुए


नवदेहली, १० दिसम्बरमासः (हि.स.)। रेलस्थानकेषु यात्रिसुविधासम्बद्धेषु विषयेषु लोकसभायां प्रवृत्तायां चर्चायां रेलमन्त्री अश्विनी वैष्णवः अवदत् स्थानकपुनर्विकासः अत्यन्तं जटिलः प्रक्रियाविशेषः अस्ति, यस्मिन् विना यातायातनिरोधं विशालस्तरे निर्माणकार्यं कर्तव्यम्। सः स्पष्टं अवदत् स्वातन्त्र्यप्राप्तेः अनन्तरं प्रथमवारमेव एवमाकारी व्यापकः स्थानकविकासकार्यः आरब्धः अस्ति।

उत्तप्रदेशस्य आजमगढ़ात् समाजवादीपक्षस्य सांसदेन धर्मेन्द्रयादवेण पृष्टे प्रश्ने मन्त्री अवदत् देशे स्थानकविकासः नूतनप्रकारस्य चुनौती अस्ति। उदाहरणरूपेण चण्डीगढ़स्थानकस्य निर्माणकार्यं प्रचलति, तस्मिन् अपि यातायातं न निरुद्धम्। अनेकदेशेषु पुनर्विकासकाले त्रयः–चत्वारः वर्षपर्यन्तं यातायातः निरुद्धः भवति, किन्तु भारतदेशे अतिभारी यातायातं सन् तत् कर्तुं न शक्यते।

तेन उक्तम् अस्माकं देशे विशालयातायातमध्यं सुरक्षाप्राथमिकतां समर्प्य विकासकार्यं क्रियते। एतत् नव्यं अनुभवम्, प्रथमवारं च एतादृशं महत् कार्यं सम्पाद्यते। अतः सर्वेभ्यः परामर्शेभ्यः स्वागतं कुर्मः; सांसदानां परामर्शेषु वयं तत्क्षणमेव कार्यवाही करिष्यामः।परामर्शः

एतस्मिन्नन्तरे केरलराज्यस्य एर्नाकुलंक्षेत्रस्य कांग्रस्सांसदेन हैबीईडेनपृष्टे प्रश्ने मन्त्री अवदत्—स्थानकैः सह सम्बद्धाः सर्वे परिवहनमार्गाः लोकयान, मेट्रो, अन्याश्च—स्थानकसंरचनायाम् एकीकृताः भविष्यन्ति; एतदेव अमृतभारतस्थानकयोजनायाः प्रमुखः सिद्धान्तः। उदाहरणं दत्वा अवोचत्—नवदेहलीस्थानकस्य पुनर्विकासे डीटीसी-लोकयानाः, मेट्रो, मार्गयातायातश्च सर्वे समन्वितरूपेण संयोज्यन्ते।

अन्ते मन्त्री आश्वासनं दत्तवान् यत्—एर्नाकुलमस्थानकस्य उत्तमयोजना विषये उद्धृतं बिन्दुं स्वयमेव परीक्ष्य सम्बद्धसांसदाय विस्तीर्णा माहिती प्रदास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता