मध्‍य प्रदेशस्य 799 पीएमश्रीविद्यालयेषु 4.80 लक्षमितेभ्यो विद्यार्थिभ्यो लब्धा अध्ययनस्य सुविधा
- पीएमश्रीविद्यालयः स्वीयक्षेत्रस्य विद्यालयानां कुरुते नेतृत्वम् भोपालम्, 10 दिसम्बरमासः (हि.स.) । मध्यप्रदेशे राष्ट्रियशिक्षानीतेः 2020 अनुरूपं 799 विद्यालयाः पीएमश्री विद्यालयरूपेण सञ्चालिताः सन्ति। एतेषु पीएम् श्री विद्यालयेषु 4 लक्षाधिकाः अश
प्रतीकात्‍मक फोटो


- पीएमश्रीविद्यालयः स्वीयक्षेत्रस्य विद्यालयानां कुरुते नेतृत्वम्

भोपालम्, 10 दिसम्बरमासः (हि.स.) । मध्यप्रदेशे राष्ट्रियशिक्षानीतेः 2020 अनुरूपं 799 विद्यालयाः पीएमश्री विद्यालयरूपेण सञ्चालिताः सन्ति। एतेषु पीएम् श्री विद्यालयेषु 4 लक्षाधिकाः अशीतिसहस्रविद्यार्थिनः अध्ययनं कुर्वन्ति। विद्यालयशिक्षाविभागेन एतेषु विद्यालयेषु स्मार्टकक्षाः, पुस्तकालया, क्रीडोपकरणानि, कलाकक्षाश्च यथा बुनियादीसुविधाः विकसिताः, येन एते विद्यालयाः आधुनिकारूपेण रूपान्तरीकृताः। एते पीएम् श्री विद्यालयाः स्वक्षेत्रस्थान्येषां विद्यालयानां शिक्षागुणवत्तावृद्धये नेतृत्वं वहन्ति।

व्यावसायिकशिक्षा कौशलविकासजनसम्पर्काधिकारी मुकेशमोदिना बुधवासरे उक्तं यत् पीएम् श्रीविद्यालयेषु पठन्तः छात्राः व्यावसायिकशिक्षायां कौशलविकासे च दक्षाः क्रियमाणाः। तेषां भावीरोजगारसन्धीनां ज्ञानाय करियरकाउन्सिलिङ्ग् अपि प्रदीयते। शैक्षणिकसत्रे 2024 25 मध्ये पीएम् श्रीयोजनायां 124 विद्यालयेषु करियरकाउन्सिलर्, 137 विद्यालयेषु मानसिकस्वास्थ्यकाउन्सिलर् नियुक्ताः। कक्षा नवमात् द्वादशपर्यन्तं 2 लक्षाधिकाः एकचत्वारिंशत्सहस्रबालकाः करियरविकल्पेषु मार्गदर्शनं प्राप्तवन्तः।

पीएम श्रीविद्यालयेषु सोलरपैनलेषु, एल् ई डी प्रकाशेषु, नैसर्गिककृषौ, पोषणोद्याननिर्माणे, अपशिष्टव्यवस्थापनकार्येषु, प्लास्टिकवर्जितपरिसरसृजने, जलपर्यावरणसंरक्षणपरम्परायां च विशेषज्ञानं दत्वा हरितविद्यालयरूपेण विकासोऽपि क्रियते।

तेन अवदत् यत् पीएम् श्रीविद्यालयेषु अध्यापनकर्तृभ्यः आई आई एम् इन्दौर रायपुर तथा टी आई एस् एस् मुम्बई इत्येषु शिक्षणकलाविधीनां प्रशिक्षणम् अपि दत्तम्। कक्षा पञ्चमपर्यन्तं विद्यार्थिनां टीचिङ्ग् लर्निङ्ग् मटेरियल् टी एल् एम् निर्माणाय 544 पीएमश्रीविद्यालयानां चयनम् कृतम्। समस्तेषु विद्यालयेषु गणित विज्ञानवृत्तचक्रगतिविधयः नियमिततया सञ्चाल्यन्ते, येन 21 तमे शताब्देः कौशलाः, सृजनात्मकचिन्तनम्, दलकार्यम् इत्येतानि विद्यार्थिषु प्रोत्साह्यम्।

कक्षा षष्ठ्याः द्वादशपर्यन्तं एकलक्षाधिकाः सप्तविंशतिसहस्रत्रिशतं विद्यार्थिनः कृते एक्स्पोजरविजिट् आयोजिताः। अस्याः विजिटस्य फलरूपेण बालकाः शिक्षणसम्बद्धासु उन्नतप्रविधिषु विशेषज्ञानम् अलभन्त।

हिन्दुस्थान समाचार