Enter your Email Address to subscribe to our newsletters

नवदेहली, 10 दिसंबरमासः (हि.स.)। प्रधानमन्त्री श्रीनरेन्द्रमोदिना बुधवारे शहीद-दिवसस्य अवसरस्य निमित्तम् ऐतिहासिक-असम-आन्दोलनमध्ये सम्मिलितानां वीराणां साहसम् बलिदानञ्च स्मरन् उक्तम् यत् असम-आन्दोलनम् आगामि-पीढीषु प्रेरणां दास्यति। ते अवदन् यत् केन्द्र-सर्वकारः राज्यस्य सांस्कृतिक-मजबूतीं समग्र-विकासस्य च संकल्पं पुनरावृणोति।
प्रधानमन्त्री एक्स इति सामाजिक-सञ्जाल-मञ्चे अवदन् यत् शहीद-दिवसे असम-आन्दोलनस्य अङ्गभूतानां सर्वेषां वीराणां साहसस्य स्मरणं क्रियते। एतद् आन्दोलनं राष्ट्रस्य इतिहासे सदा महत्त्वपूर्णं स्थानम् अवशिष्यते। केन्द्र-सर्वकारः तेषां सर्वेषां स्वप्नानां पूर्तौ समर्पितः अस्ति, विशेषतः असमस्य संस्कृतिम् अधिकं सुदृढीकर्तुं राज्यस्य च सर्वाङ्गिण-प्रगतये। प्रधानमन्त्रिणा उक्तम् यत् असम-आन्दोलनम् राज्यस्य अस्मितां सामाजिक-चेतनाम् सांस्कृतिक-वैभवं च नवदिशां प्रदत्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता