Enter your Email Address to subscribe to our newsletters

-तकनीकी शिक्षाम् उद्योग-उन्मुखिनीं निर्मातुं लखनऊनगरे उच्च स्तरीया समीक्षा गोष्ठी
लखनऊ, 10 दिसंबमासः (हि.स.)।उत्तरप्रदेशस्य योगिसर्वकारस्तांत्रिकशिक्षां उद्योगोन्मुखीं कृत्वा युवान् प्रत्यक्षं रोजगारैः संयोजयितुं लक्ष्यम् अवलोक्य अस्य अभियानस्य प्रदेशस्तरीयं विस्तृतं संचालनं प्रोत्सहयति। अस्यै एव भूमिकायां लखनऊ नगरे ‘पॉलिटेक्निक चलो अभियान २०२६’ इत्यस्य सफलकार्यअन्वयनसम्बन्धिनि अपरमुख्यसचिवस्य प्राविधिकशिक्षाया नरेन्द्रभूषणस्य अध्यक्षतायां बैठकम् आयोजितम्।
उपवेशने निर्णयः कृतः यत् संयुक्तप्रवेशपरीषत् द्वारा निर्मिता प्रस्तुति प्रदेशस्य सर्वेषु जनपदेषु व्यापकस्तरे प्रसारितव्या, येन अधिकाधिकाः छात्रछात्रिकाः तांत्रिकशिक्षायाः प्रति आकर्षिताः भवेरन्। डिजिटलमाध्यमानां विशेषतः श्रव्यदृश्यप्रचारसामग्रीणां उपयोगवृद्धेः विषये विशेषबलं दत्तम्।
अपरमुख्यसचिवेन अधिकारिभ्यः आदेशः दत्तः यत् पॉलिटेक्निक चलो अभियान २०२६ इति सफलतया सञ्चाल्य अभ्यर्थीन् उद्योगाभिमुखडिप्लोमापाठ्यक्रमेषु जागरूकाञ् कर्तव्यान्। परिवर्तमाने औद्योगिकपरिवेशे मार्केटमांगानुसारं नूतनपाठ्यक्रमाणां आरम्भः अपि निर्णीतः, येन छात्राः आधुनिक्तांत्रिककौशलानि अवाप्य पाठ्यक्रमसमाप्तौ एव रोजगारसंधीं लब्धुं शक्नुइयुः।
गोष्ठ्यां प्रस्तुताङ्कानुसारं वर्षे २०२४ तु ४१२७५९ अभ्यर्थिभिः ऑनलाइन आवेदनं कृतम्, तेषु ११५४४४ विद्यार्थी प्रवेशं प्राप्तवन्तः। वर्षे २०२५ तु ४२५९९३ आवेदनानि प्राप्तानि, तेषु १३४६२८ छात्रछात्राभ्यां प्रवेशः लब्धः।
गोष्ठ्यां प्राविधिकशिक्षाविभागस्य वरिष्ठाः अधिकारीणः अपि उपस्थिताः आसन् — प्राविधिकशिक्षामहानिदेशकः सेल्वाकुमारी जे., विशेषसचिवः विनोदकुमारः, प्राविधिकशिक्षानिदेशकः अजीज अहमदः, निदेशकः शोधविकासप्रशिक्षणसंस्थानस्य एफ आर खान, सचिवः प्राविधिकशिक्षापरिषदः सन्तोषकुमारः तथा संयुक्तप्रवेशपरीषत् सदस्यः संजीवकुमारसिंहः इति।
---------------
हिन्दुस्थान समाचार