विहिपस्य मार्गदर्शकमण्डलेन द्विदिवसीयसभा आरब्धा, देवालयानां सर्वकारीनियन्त्रणात् विमोचनं धर्मान्तरनिरोधश्च विषयतया प्रतिध्वनितम्।
नवदेहली ९ दिसम्बरमासः (हि.स.) विश्वहिन्दूपरिषदः (विहिप) केन्द्रीयमार्गदर्शकमण्डलस्य द्विदिनात्मकसभा मङ्गलवासरे सायं पञ्जाबीनगरस्य बागप्रदेशे अवस्थिते इन्द्रप्रस्थे आरब्धा। ज्योतिषपीठाधीश्वरः जगद्गुरुः शङ्कराचार्यः स्वामीवासुदेवानन्दसरस्वती-महाराजः
विहिप मार्गदर्शक मंडल की दो दिवसीय बैठक की फाेटाे


नवदेहली ९ दिसम्बरमासः (हि.स.) विश्वहिन्दूपरिषदः (विहिप) केन्द्रीयमार्गदर्शकमण्डलस्य द्विदिनात्मकसभा मङ्गलवासरे सायं पञ्जाबीनगरस्य बागप्रदेशे अवस्थिते इन्द्रप्रस्थे आरब्धा। ज्योतिषपीठाधीश्वरः जगद्गुरुः शङ्कराचार्यः स्वामीवासुदेवानन्दसरस्वती-महाराजः अध्यक्षतां वहन् आरम्भसत्रे देशस्य सर्वतः आगतानां 300 सन्तानां धार्मिकसामाजिकचुनौत्यः विषये गम्भीरं चिन्तनं अकरोत्। सभायां पूज्यजगद्गुरुः स्वामी रामकमलाचार्यः, स्वामी विश्वात्मानन्दसरस्वती, आचार्य- महामण्डलेश्वरः स्वामी विशोकानन्दः, स्वामी विवेकानन्दमहाराजः, गीतामनीषी ज्ञानानन्दमहाराजः तथा अन्ये बहवः सन्तः विहिपकार्यकारिण्यः च उपस्थिताः आसन्।

उद्घाटनसत्रे विहिपस्य अन्ताराष्ट्रीयाध्यक्षः आलोककुमारः हिन्दूसमाजस्य पुरतः संस्थिताः मुख्याः चुनौत्यः निर्दिश्य सन्तेभ्यः मार्गदर्शनस्य प्रार्थनां कृतवान्। स उवाच देवालयानां सर्वकारीनियन्त्रणात् मोक्षणम्, धर्मान्तरस्य वर्धमानानां घटनानां निरोधनम्, अखिलभारते समानं धर्मस्वातन्त्र्यनियमस्य प्रवर्तनं च एते विषयाः त्वरितं ध्यानं दृढं च मार्गदर्शनं याचन्ते। तदनन्तरं जिहादीमानसिकतायाः, कट्टरतायाः च नियन्त्रणम्, सीमाप्रदेशेषु वर्धमानः सामाजिकः सङ्कटः, नशानिवारणं, आगामीजनगणनायां हिन्दुधर्मस्य स्पष्टरूपेण उल्लेखः—इत्येतेऽपि अत्यावश्यकाः समस्याः इति सः उक्तवान्।

अखिलभारतीयसन्तसमितेः महामन्त्री स्वामी जितेन्द्रानन्दः अपि अभ्यधात् यत् केचन समूहाः देशे जिहादातङ्कमानसिकतां प्रोत्साहयन्ति, या अत्यन्तगम्भीरा स्थितिः अस्ति। देहल्यां वृत्ते आतङ्कवादि-आक्रमणस्य अपराधिनः समर्थनं ‘चिन्ताजनका प्रवृत्तिः’ इति निर्दिश्य सः संसदतः कठोरनियमस्य प्रार्थनाम् अकरोत्। तेन देवालयानां सर्वकारी-अधिग्रहणात् मोक्षणम्, जनसङ्ख्यानियन्त्रणनियमस्य च आवश्यकतां बलात् प्रतिपादितम्।

एतस्मिन् मध्ये बङ्गालदेशात् आगताः सन्तः राज्यस्थितिं गम्भीरां मन्यमानाः अवदन् यत्—कट्टरपन्थिनां मुक्तैः जिहादी-उच्चारणैः, हिन्दूनां प्रति दत्ताभिः धमकीभिः च सम्पूर्णदेशाय सचेतना प्रदीयते। तथैव सुधांशुजी-महाराजः राममन्दिर-निर्माणार्थं पञ्चशताब्दिकं संघर्षं स्मृत्वा अवदन् भारतमस्य सत्यशक्तिरेव तपस्विसन्तेषु संस्कृतिपरम्परासु च निहिता अस्ति। तेन गुरुकुलव्यवस्थां, आश्रमपरम्पराम्, पुजारीपरम्पराम्, संस्कारकेंद्राणि च सशक्तीकर्तुं आवानः कृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता