प्रधानमन्त्री-सूर्यगृहनिर्मुक्त-विद्युत्-योजना अन्तर्गतं प्रयागराजस्य ८८५३ लाभार्थीनां अधिकोषेशु प्रदत्ता अनुदान-धनराशिः
नवसहस्रसप्तशतैकानवत्यधिकानि गृहाणि सौर-छदन-संयन्त्रैः संस्थापितानि सन्ति। प्रयागराजः, 10 दिसंबरमासः (हि.स.)। प्रधानमन्त्रिणः सूर्यगृह-योजना अन्तर्गतं केन्द्र-सर्वकारेण प्रयागराजस्य ८८५३ लाभार्थिनां अधिकोषेषु अनुदान-धनराशेः भुगतानं कृतम्। यावत् लक्
पीएम सूर्यघर योजना का प्रतीकात्मक छाया चित्र


नवसहस्रसप्तशतैकानवत्यधिकानि गृहाणि सौर-छदन-संयन्त्रैः संस्थापितानि सन्ति।

प्रयागराजः, 10 दिसंबरमासः (हि.स.)। प्रधानमन्त्रिणः सूर्यगृह-योजना अन्तर्गतं केन्द्र-सर्वकारेण प्रयागराजस्य ८८५३ लाभार्थिनां अधिकोषेषु अनुदान-धनराशेः भुगतानं कृतम्। यावत् लक्षं गृहेषु सौर-रूफटॉप-स्थापनस्य लक्ष्यं निर्धारितम् अस्ति। एषा सूचना बुधवासरे नवीन-नवीकरणीय-ऊर्जा-विकास-अभिकरण (यू.पी. नेडा) प्रभारी मोहम्मद-शाहिद-सिद्दीकी इति अवदत्।

ते अवदन् यत् पी.एम. सूर्यगृहः मुक्त-विद्युत्-योजना अन्तर्गतं केन्द्र-राज्य-सर्वकारौ लोकसामान्यं नवीन-ऊर्जा-क्षेत्रे आत्मनिर्भरं कर्तुं तथा विद्युत्-बिलं शून्यं कर्तुं अभियानं सञ्चालयतः। अस्याः योजनायाः अन्तर्गतम् घरेलु-विद्युत्-उपभोक्ता स्वगृहे स्वीकृत-विद्युत्-भारस्य समतुल्य-क्षमतायुक्तं सौर-रूफटॉप-पावर-प्लान्टं स्थापयितुं शक्नोति। सर्वकारेण सौर-पावर-प्लान्टस्य अनुमानित-लागतिः प्रतिकिलोवाटं ६५ सहस्ररूप्यकाणि भवन्ति। अस्य स्थापनात् प्रतिमासं ७५ प्रतिशतं विद्युत्-उपभोगे कमीकरणं भवति।

द्विकिलोवाट्-युतस्य संयन्त्रस्य स्थापनायां राज्य-सर्वकारः प्रतिकिलोवाट् १५ सहस्राणि, अधिकतमं ३० सहस्राणि अनुदानराशिं ददाति। तेन सह केन्द्र-सर्वकारः प्रतिकिलोवाट् ३० सहस्ररूप्यकाणि, अधिकतमं ६० सहस्ररूप्यकाणि अनुदानराशिं ददाति। अर्थात् द्विकिलोवाट्-स्थापनायां ९० सहस्ररूप्यकाणां अनुदानराशिः प्रदीयते।

एवमेव त्रिकिलोवाट्-युतस्य सौर-पैनल-स्थापनायां राज्य-सर्वकारः अधिकतमं ३० सहस्राणि तथा केन्द्र-सर्वकारः अधिकतमं ७८ सहस्ररूप्यकाणि अनुदानं प्रदाति। एवं प्रकारेण त्रिकिलोवाट्-पैनल-स्थापनसमये १ लक्ष ८ सहस्ररूप्यकाणि लाभार्थिनां खातेषु प्रत्यक्षं अनुदानराशिं दीयमानम् अस्ति। मोहम्मद-शाहिद-सिद्दीकी अवदन् यत् प्रयागराजे अस्मिन् वित्तीय-वर्षे २२ सहस्र ९६५ जनाः अस्य योजनायाः लाभस्य प्राप्त्यर्थं आवेदनं कृतवन्तः। किन्तु अद्यावधि ९७१९ गृहेषु सौर-पैनल् स्थापितम् अस्ति। केन्द्र-राज्य-सर्वकाराभ्यां प्रयागराजस्य ८८५३ लाभार्थिनां आधिकोषेषु अनुदानधनराशेः भुगतानं कृतम्।

ते लोकान् प्रति आह्वानं अकुर्वन् यत् प्रयागराजस्य जनाः विद्युत्-बिल-व्ययस्य न्यूनिकरणार्थं पी.एम. सूर्यगृह-योजनाया: लाभं प्राप्तुं विभागस्य वेबसाइट् मध्ये गत्वा ऑनलाइन-आवेदनं करोतु, तथा सर्वकारेण दीयमानां अनुदान-राशिं स्वीकृत्य विद्युत्-क्षेत्रे आत्मनिर्भराः भूवन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता