असमस्य मुख्यमंत्री पूर्व राष्ट्रपतये प्रणब मुखर्जये जन्मदिनेऽददात् श्रद्धांजलिम्
गुवाहाटी, 11 दिसम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा गुरुवासरे पूर्वराष्ट्रपतिः प्रणबमुखर्जी इत्यस्य जन्मदिने तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवन्तः। स्वस्य सामाजिकमाध्यमसन्देशे सः अवदत् यत् मुखर्जिणः असाधारणः जीवनपथः षट
Image of the Former President Pranab Mukherjee.


गुवाहाटी, 11 दिसम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा गुरुवासरे पूर्वराष्ट्रपतिः प्रणबमुखर्जी इत्यस्य जन्मदिने तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवन्तः। स्वस्य सामाजिकमाध्यमसन्देशे सः अवदत् यत् मुखर्जिणः असाधारणः जीवनपथः षट् दशकाधिककालव्यापी सार्वजनिकजीवनं च राष्ट्रे प्रति तस्य समर्पणस्य अद्वितीयं द्योतकम् अस्ति।

मुख्यमन्त्रिणा उक्तं यत् प्रणबमुखर्जी महान् व्यक्तिमत्त्वयुक्तः आसीत् यस्य यात्रा कोलकातानगरे डिप्टीअकाउन्टेन्ट् जनरलकार्यालये अपरडिविजनक्लर्करूपेण सेवया आरभ्य भारतस्य त्रयोदशराष्ट्रपतिपदपर्यन्तं प्रवृत्ता। एषा यात्रा राष्ट्रसेवा दूरदर्शिता दृढसंकल्पशक्तिश्च इत्यस्य प्रतीकस्वरूपा बभूव।

डॉ सरमा अवदत् यत् भारतरत्नेन सम्मानितः प्रणबमुखर्जी भारतेः राजनीतिकदिशां विनिर्मितवान् विभिन्नदलेषु संवादं ऐक्यं च सुदृढीकृतवान् लोकतान्त्रिकसंस्थाः च बलीकृतवान्। सः अवदत् — “राष्ट्रे समर्पितं एतत् महत् नेतृत्वं तस्य जन्मजयन्त्यां वयं भावपूर्वकं नमामः।”

हिन्दुस्थान समाचार