राजनीतिक हिंसायां मृतकार्यकर्तॄणां स्मृतौ भाजपा समाचरत् हुतात्मदिवसः
शहीदों की याद में भाजपा ने मनाया शहीद दिवस
शहीदों को श्रद्धांजलि अर्पित करते लोग


जलपाईगुड़ी,11 दिसंबरमासः (हि.स)।गाजोलडोबा पोलीस्फाडेः समीपे स्थितायां हुतात्मवेद्यां प्रतिवर्षवत् अस्मिन् वर्षे अपि राजगञ्जस्य मिलनपल्लिक्षेत्रस्य द्वयोः हुतात्मनोस्स्मरणाय भाजपादलेन शहीद्दिवसस्य आयोजनं कृतम्।

संगठनसूत्राणाम् अनुसारम् वर्षे १९९८ तमे निर्वाचनकाले एकस्मिन् पक्षे सीपीएम् दलम् आसीत् अन्यस्मिन् पक्षे भाजपतृणमूल्कांग्रेसगठबन्धनम्। तस्मिन् एव वर्षे ११ दिसंबरदिने जातस्य राजनीतिकसंघर्षस्य परिणामरूपेण मानिकमण्डलस्य पद्मलालसरकारस्य च निधनम् अभवत्। तदनन्तरं भाजपादलम् प्रतिवर्षम् अस्मिन् दिने शहीद्दिवसस्य आयोजनं निरन्तरं कुर्वति।

गुरुवासरे हुतात्मवेद्याः समीपे मञ्चं निर्माय भाजपनायकाः कार्यक्रमम् आयोज्य शहीदोः प्रति श्रद्धाञ्जलिं न्यवेदयन्। अस्मिन् समये भाजपा जलपायिगुडीजिलासचिवः दधिरामरायः, भाजपा उत्तरमण्डलाध्यक्षः अर्जुनमण्डलः, किसानमोर्चाजिलाध्यक्षः नकुलदासः, अन्ये च अनेके कार्यकर्तारः कार्यक्रमे उपस्थिताः आसन्।

हिन्दुस्थान समाचार