रायपुरम् : उद्योग मंत्री देवांगनोऽद्य ऑसजनस्य करिष्यति लोकार्पणम
रायपुरम्, 11 दिसंबरमासः (हि.स.)। प्रदेशस्य वाणिज्यउद्योगश्रमआबकारीसार्वजनिकोपक्रममन्त्री लखनलालदेवाङ्गनः अद्य गुरुवासरे ऑक्सीजोनस्य लोकार्पणं करिष्यति। तेन सह डोर् टू डोर् गार्बेज् कलेक्शनकार्याय असीतिः (८०) ईरिक्शानां वितरणम् अपि क्रियते। अद्य
मंत्री लखन लाल देवांगन फाइल फाेटाे


रायपुरम्, 11 दिसंबरमासः (हि.स.)।

प्रदेशस्य वाणिज्यउद्योगश्रमआबकारीसार्वजनिकोपक्रममन्त्री लखनलालदेवाङ्गनः अद्य गुरुवासरे ऑक्सीजोनस्य लोकार्पणं करिष्यति। तेन सह डोर् टू डोर् गार्बेज् कलेक्शनकार्याय असीतिः (८०) ईरिक्शानां वितरणम् अपि क्रियते। अद्य नगरपालिकानिगमकोरबायाः भण्डारगृहे अपराह्णे तृतीये वादने (३ ००) ईरिक्शावितरणकार्यक्रमः आयोजितः अस्ति तथा पौडीबहारोद्यानमध्ये सायं चतुर्थे वादने (४ ००) लोकार्पणभूमिपूजनकार्यक्रमः अपि नियोजितः अस्ति।

नगरपालिकानिगमे कोरबा इत्यनेन डोर् टू डोर् अपशिष्टसंग्रहणकार्याय असीतिः (८०) ईरिक्शानि स्वच्छतादले समाविष्टानि। गुरुवासरे ११ दिसंबरदिने उद्योगमन्त्री लखनलालदेवाङ्गनः एतानि सर्वाणि ईरिक्शानि स्वच्छतादीदीभ्यः सफाईव्यवस्थायै वितरणं करिष्यति।

एवमेव नगरपालिकानिगमेन कोरबा इत्यनेन नेशनल्क्लीनएयर् कार्यक्रमान्तर्गतं पौडीबहारोद्यानमध्ये ऑक्सीरिच् जोनस्य निर्माणम् एककोटिशत्षष्टिलक्ष (१ ६० लाख) रूप्यकव्ययेन कृतम्। तस्य लोकार्पणम् अपि उद्योगमन्त्री लखनलालदेवाङ्गनः करिष्यति।

हिन्दुस्थान समाचार