मतदातृसूची सम्यत् करणीया सर्वं जनं यावत् प्राप्तिः सुनिश्चेया - याेगी
मुख्यमंत्री योगी आजमगढ़े एसआईआर समीक्षायां संगठनाय दत्ताः निर्देशाः आज़मगढ़म्, 11 दिसंबरमासः (हि.स.)। जनपदं प्राप्तवान् मुख्यमन्त्री योगी आदित्यनाथः निर्धारितसमयात् द्विघण्टापर्यन्तं विलम्बेन मुख्यालय-सभागारे एसआईआर (विशेषगहनपुनरीक्षणस्य) प्रगति
कलेक्ट्रेट सभागर में वैठक करते सीएम 3


कलेक्ट्रेट सभागर में वैठक करते सीएम 2


कलेक्ट्रेट सभागर में वैठक करते सीएम 1


कलेक्ट्रेट सभागर में वैठक करते सीएम


सीएम का स्वागत करते संगठन के पदाधिकारी


मुख्यमंत्री योगी आजमगढ़े एसआईआर समीक्षायां संगठनाय दत्ताः निर्देशाः

आज़मगढ़म्, 11 दिसंबरमासः (हि.स.)।

जनपदं प्राप्तवान् मुख्यमन्त्री योगी आदित्यनाथः निर्धारितसमयात् द्विघण्टापर्यन्तं विलम्बेन मुख्यालय-सभागारे एसआईआर (विशेषगहनपुनरीक्षणस्य) प्रगतिं समीक्षितवान्। सभायां तस्मै जिल्याम् मतदाता-सूच्याः संशोधन-अद्यतनकार्ययोः वर्तमानस्थितिः निवेदिता। मुख्यमन्त्रिणा स्पष्टनिर्देशाः दत्ताः यत् मृतकानां द्विरुक्तानां च मतदातानां नामानि निष्कास्यन्ताम्, दोषयुक्तप्रविष्टयः संशोध्यन्ताम्, एकोऽपि वास्तविकमतदाता न परिहीयताम्।

बृहस्पतिवासरे द्वादशवादनसमये मुख्यमन्त्री पुलिसलाइनम् आगच्छत्; द्वादशवादनाद् अष्टमिमिनिट् समये कलेक्ट्रेट्-सभागारम् प्रविष्टवान्, यत्र आयुक्तः विवेकः, डीआईजी सुनीलकुमारसिंहः, जिलाधिकारिः रविन्द्रकुमारः, पुलिसअधिक्षकः डॉ. अनिलकुमारः च उपस्थिताः आसन्। सभायां संगठनस्य पदाधिकारीभिः सह एसआईआर-प्रगतेः विषये विस्तीर्णा चर्चा अभवत्।

मुख्यमन्त्रिणा आदेशः दत्तः यत् बूथ-स्तरे मतदाता-सूचिः पूर्णतया शुद्धा अद्यतनीकृता च भवेत्। ये मतदाता बाह्यप्रदेशेषु वसन्ति, तैः सह सम्पर्कः कृत्वा तेषां एसआईआर-पत्रं पूरयितुं प्रयत्नः क्रियेत। सः आदेशं दत्तवान् यत् संगठनस्य कार्यकर्तारः स्थलीयस्तरे गत्वा व्यक्तिशः (वन-टू-वन) सम्पर्कं कृत्वा येषां नाम सूचौ नास्ति, तान् सूचीं प्रति संयोजयन्तु।

सभान्ते माध्यमैः सह संवदन् सुभासपायाः राष्ट्रीयप्रधानमहासचिवः डॉ. अरविन्दराजभरः उक्तवान् यत् सभायाः मुख्यविषयः एसआईआर आसीत्। सः अवदत् यत् मुख्यमन्त्रिणा विधानसभा-क्षेत्राणां डेटाबेस् अवलोक्य मृतक-सन्दिग्धमतदातृसंख्यायाः विषये चिन्ता व्यक्ता। कार्यकर्तारः बूथ-स्तरम् सक्रियतया गत्वा कृत्रिममतदातृनामानि निष्कास्य वास्तविकान् मतदातॄन् संयोजयिष्यन्ति।

डॉ. राजभरः प्रदेशीययुवकानां रोजगारविषये, महिला-आरक्षणविषये, सामाजिक-न्याससमित्याः तथा रोहिणीआयोगस्य प्रतिवेदनस्य विषये गम्भीरचर्चायाः आवश्यकता अपि अवोचत्। सः सुभासपा–भाजपाद्वयोर् मध्ये स्थितस्य गठबन्धस्य स्थैर्ये विषये अपि विश्वासं व्यक्तवान्।

तत्रैव सभान्ते ऊर्जामन्त्री ए.के.शर्मा अवदत् यत् वर्तमानबिलराहत्योजनया चत्वारि लक्षाधिकाः उपभोक्तारः लाभं प्राप्तवन्तः। प्राचीनबकायेषु शतप्रतिशतव्याजी-क्षमा ग्रामवासिनः अत्यन्तं राहतिं दत्ता। स्मार्ट्-मीटर-सम्बद्धाः शिकायतयः यत्र यत्र वास्तविकाः दृष्टाः, तत्र तत्र चेक्-मीटर आरोप्य समाधानं कृतम्।

प्रायः चत्वारिंशन्मिनिट्-दीर्घां सभां मुख्यमन्त्रिणा जिल्लायाः मतदातृ-सूचीसंशोधनस्य संगठनगतक्रियाकलापानां च व्यापकं मूल्यांकनम् कृतम्, सर्वकार्याणि समये तथा दोषरहितरूपेण सम्पन्नानि भवन्तु इति सुनिश्चितम्।

अस्यां सभायां कारागारमन्त्री दारासिंहचौहानः, परिवहनमन्त्री दयाशङ्करसिंहः, मन्त्री दानिश्, भाजपायाः क्षेत्रीयाध्यक्षः सहजानन्दरायः, त्रयाणां जिलानां जिलाध्यक्षाः, एसआईआर-आज़मगढ़-संयोजकः नन्हकूरामसरोजः, सर्वे जिलाप्रवासी, प्रभारिणः, संयोजकाः, सर्वे सांसदाः विधायकाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार