ऑपरेशनल कारणैः श्रीनगरान्ताराष्ट्रियविमानपत्तनके पञ्च उड्डयनानि निरस्तानि
श्रीनगरम्, 11 दिसंबरमासः (हि.स.)। ऑपरेशनलकारणात् गुरुवासरे श्रीनगर-अन्ताराष्ट्रियविमानपत्तने न्यूनातिन्यूनं पञ्च उडानाः निरस्ताः अभवन्। विमानपत्तनधिकृतानां अनुसारं अद्य दिवसस्य नियोजिताः इन्डिगोविमानवाहिन्याः चतस्रः उडानाः निरस्ताः जाताः। तासु अमृत
ंडिगो की कई फ्लाइट्स कैंसिल होने के बाद श्रीनगर इंटरनेशनल एयरपोर्ट पर एयर ट्रैफिक में आई दिक्कतें


श्रीनगरम्, 11 दिसंबरमासः (हि.स.)। ऑपरेशनलकारणात् गुरुवासरे श्रीनगर-अन्ताराष्ट्रियविमानपत्तने न्यूनातिन्यूनं पञ्च उडानाः निरस्ताः अभवन्। विमानपत्तनधिकृतानां अनुसारं अद्य दिवसस्य नियोजिताः इन्डिगोविमानवाहिन्याः चतस्रः उडानाः निरस्ताः जाताः। तासु अमृतसरं प्रति यानम् 6ई 6165 (प्रातः 09 45), दिल्ल्यां प्रति 6ई 6761 (सायं 17 35), कोलकातां प्रति 6ई 6962 (सायं 18 45), पुनः दिल्ल्यां प्रति 6ई 2449 (सायं 20 40) इति उडानाः अन्तर्भवन्ति। स्पाइसजेटस्यापि एक उडान निरस्ता जाता।

अधिकृताः अवदन् यत् दिल्ल्यां प्रति 12 55 वादने नियोजिता फ्लाइट् एस जी 664 अपि न संचालिताभवत्। निरस्तासु उडानासु यत्र बुकिङ्ग् कृतं यात्रिणः सन्ति तेभ्यः पुनरारक्षणं तथा अग्रिमसहाय्याय सम्बन्धितविमानसंस्थाभ्यः सह सम्पर्कः करणीय इति उपदेशः दत्तः।

-----------------------------

हिन्दुस्थान समाचार