हिंदीचलचित्रस्य ‘धुरंधर’ इत्यस्य गुजराते विरोधः, प्रतिबंधं प्रयोक्तुमुत्थितो ध्वनिः
अहमदाबादम्, 11 दिसंबरमासः (हि.स.)। आदित्यधरस्य निर्देशनम् अधिष्ठाय निर्मिता हिन्दीचलच्चित्रम् ‘धुरन्धर’ इति नामकं जूनागढ्नगरे तीव्रविरोधस्य विषयः जातम्। अस्मिन् चलचित्रे अभिनेतुः संजयदत्तस्य उक्तः कश्चन संवादः कारणीकृत्य बलोचमकरानीसमाजे महान् आक
हिंदी फ़िल्म धुरंधर


अहमदाबादम्, 11 दिसंबरमासः (हि.स.)।

आदित्यधरस्य निर्देशनम् अधिष्ठाय निर्मिता हिन्दीचलच्चित्रम् ‘धुरन्धर’ इति नामकं जूनागढ्नगरे तीव्रविरोधस्य विषयः जातम्। अस्मिन् चलचित्रे अभिनेतुः संजयदत्तस्य उक्तः कश्चन संवादः कारणीकृत्य बलोचमकरानीसमाजे महान् आक्रोशः उत्पन्नः अस्ति। समाजस्य मतं यत् सः संवादः तेषां जातिम् उद्दिश्य उक्तः येन कारणेन तेषां भावनाः गम्भीरतया आहताः।

जूनागढ् बलोचमकरानीसमाजस्य प्रमुखः अधिवक्ता एजाज् मकरानी इत्येन चलचित्रस्य अभिनेता संवादलेखकः निर्देशकः च विरुद्धं कानूनीकार्यस्य माग्रहम् कृत्वा तालुकापोलीस्स्थाने शिकायतिः उपस्थिताकृता। तेन उक्तं यत् चलचित्रे लाभप्राप्त्यर्थं समुदायविशेषस्य छवि निन्दनीयतया प्रदर्श्यते इति। अधिवक्ता एजाज् मकरानी इत्यनेन चेतावनी अपि दत्ता यत् दशदिनानां मध्ये यदि पोलीस्संस्था यथोचितं कार्यं न करिष्यति तर्हि समाजः गुजरातउच्चन्यायालये याचिकां प्रेक्ष्यति। समाजस्य मतं यत् एतेषु संवादेषु यदि प्रतिबन्धः न भवति तर्हि अनागतकालेऽन्येषां समुदायानां भावनापि आहत्य सामाजिकतनावः वर्धितुं शक्यो भवेत्।

बलोचमकरानीसमाजः मूलतः बलूचिस्तानदेशस्य मकरानप्रदेशात् आगतः। केवलं जूनागढ् जनपदे एव पञ्चविंशतिसहस्रात् अधिकाः बलोचजनाः वसन्ति। समग्रगुजरात् प्रान्ते तेषां संख्या अष्टलक्षात् अधिका मन्यते। कच्छ भावनगर राजकोट् सुरत अहमदाबाद् जामनगर इत्यादिषु बहुषु नगरेषु एषः समाजः निवसति।

---------------

हिन्दुस्थान समाचार