ई–२० पेट्रोल् इत्यस्य उपयोगेन वाहनानां किञ्चित् अपि प्रतिकूलफलम् न विद्यते - गडकरी
नवदिल्ली, 11 दिसम्बरमासः (हि.स.)। केन्द्रीय–सड़क–परिवहन–राजमार्गमन्त्री नितिन​गडकरी लोकसभायां स्पष्टं कृतवन्तः यत् ई–२०, अर्थात् एथनॉल–मिश्रित–पेट्रोल् इत्यस्य उपयोगः वाहनानाम् उपरि कस्यापि प्रतिकूलप्रभावस्य जनकः न भवति। तेन उक्तम् यत् विस्तीर्णेष
केंद्रीय सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरी गुरुवार को लोकसभा में


नवदिल्ली, 11 दिसम्बरमासः (हि.स.)।

केन्द्रीय–सड़क–परिवहन–राजमार्गमन्त्री नितिन​गडकरी लोकसभायां स्पष्टं कृतवन्तः यत् ई–२०, अर्थात् एथनॉल–मिश्रित–पेट्रोल् इत्यस्य उपयोगः वाहनानाम् उपरि कस्यापि प्रतिकूलप्रभावस्य जनकः न भवति। तेन उक्तम् यत् विस्तीर्णेषु परीक्षणेषु एषः इन्धनप्रकारः पूर्णतया सुरक्षितः प्राप्तः, तथा अस्य उपयोगेन प्रदूषण–नियन्त्रणं विदेशमुद्रा–संरक्षणं च साध्यते।

लोकसभायां गुरुवासरे प्रश्नकाले एथनॉल–मिश्रित–पेट्रोल् इत्यस्य प्रभावशीलतां प्रति उद्धिष्टेषु प्रश्नेषु प्रत्युत्तरं दत्त्वा गडकरी अवदन्—

सरकारेण सम्पन्नेषु विस्तृत–परीक्षणेषु ई–२० पेट्रोलेद्वारा वाहनानां चालनीयता (ड्राइवबिलिटी), प्रारम्भ–सुलभता (स्टार्टबिलिटी), धातु–प्लास्टिक–संगतता इत्यादिषु किमपि नकारात्मकं परिणामं न दृष्टम्। ई–२० उपयोगेन राष्ट्राय महत्त्वपूर्णाः आर्थिक–पर्यावरणीय–लाभाः लभ्यन्ते।

एथनॉल–मिश्रणस्य फलस्वरूपम् १.४० लाख–कोटि–रूप्यकाणाम् अधिका विदेशमुद्रा अबधिका रक्षिताः, तथा गन्ना–मक्का–कच्चा–मालं प्रदातृभ्यः कृषकभ्यः ४०,००० कोटि रूप्यकाणां भुगतानं कृतम् इति अपि तेन उक्तम्।

गडकरी जगाद यत् १ एप्रिल् २०२३ तः पूर्वं विक्रियमाणानि वाहनानि ई–१० अनुकूलानि; ततः परं विक्रियमाणानि वाहनानि ई–२०–सामग्री–अनुपालन–मानकान् पूरयन्ति। तस्य स्पष्टीकरणम्—

पुरातन–वाहनानां कस्यापि अनिवार्य–निर्गमनम् (फेज़–आउट) अथवा रेट्रोफिट्टिङ् आवश्यकं नास्ति; सामान्यः क्षयः नियमित–सेवायां सुगमेन परिहर्तुं शक्यते।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता