वीर सावरकरस्य प्रतिमायाः अनावरणं करिष्यति संघ प्रमुखः, डॉ. भागवतः अद्य अंडमान-निकोबारयोः त्रिदिवसीयभ्रमणे
नव दिल्ली, 11 दिसंबरमासः (हि.स.)। राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः डॉ मोहन भागवतः गुरुवासरे अण्डमान नकोबार द्वीपसमूहस्य त्रिदिनीय यात्रां करिष्यति। सः अत्र वीरसावरकरस्य प्रतिमाम् अनावरणं करिष्यति। अद्य सः श्रीविजयपुरं प्राप्य संघस्य पदाधिकृतैः क
संघ प्रमुख का अंडमान-निकोबार का तीन दिवसीय दौरा आज से


नव दिल्ली, 11 दिसंबरमासः (हि.स.)।

राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः डॉ मोहन भागवतः गुरुवासरे अण्डमान नकोबार द्वीपसमूहस्य त्रिदिनीय यात्रां करिष्यति। सः अत्र वीरसावरकरस्य प्रतिमाम् अनावरणं करिष्यति। अद्य सः श्रीविजयपुरं प्राप्य संघस्य पदाधिकृतैः कार्यकर्तृभिश्च सह उपवेशनंकरिष्यति। द्वादशे डिसम्बर् मासस्य दिवसे सः दक्षिणअण्डमानप्रदेशस्य बेओदनाबाद इत्यत्र महान् स्वतंत्रतासेनानिन् विनायक दामोदर सावरकरस्य प्रतिमाम् अनावरणं करिष्यति। तेन सह डॉ बी आर आंबेडकर इन्स्टिट्यूट ऑफ टेक्नोलॉजी इत्यस्मिन् आयोजितेषु कार्यक्रमेषु सावरकरविचाराधारितगीतस्य विमोचनम् अपि करिष्यति।

त्रयोदशे डिसम्बर् दिवसे सः श्रीविजयपुरस्थे नेताजी स्टेडियम इत्यस्मिन् सभां संबोधयिष्यति चतुर्दशे दिवसे तस्य प्रतिनिवर्तनकार्यक्रमः नियोजितः अस्ति। उल्लेखनीयम् यत् ब्रिटिशराज्यकाले वीरसावरकरः कालापानिसजायाः अन्तर्गतम् अण्डमानदीपसमूहस्य सेलुलरकारागारे बद्धः आसीत्। सः चतुर्थे जुलाई 1911 तमे वर्षे आरभ्य एकविंशतितमे मई 1921 तमे वर्षपर्यन्तं पोर्टब्लेयरनगर्यां कारागारे आसीत्।

---------------

हिन्दुस्थान समाचार