भोपालस्य गौहर-प्रासादे “परी-बाजार हेरिटेज्-उत्सवस्य” भव्यः शुभारम्भः
- मंत्री निर्मलाभूरिया इत्यनेन कृतं उत्सवस्य उद्घाटनं, 11-14 दिसम्बरपर्यन्तं भविष्यन्ति विभिन्नकार्यक्रमाः भोपालम्, 11 दिसम्बरमासः (हि.स.)। मध्यप्रदेशराजधानी-भोपालस्य ऐतिहासिके गौहर-प्रासादे ११–१४ दिसम्बर-पर्यन्तं आयोजितस्य “परी-बाजार् हेरिटेज्-
“परी बाज़ार हेरिटेज फेस्टिवल “का भव्य शुभारंभ


- मंत्री निर्मलाभूरिया इत्यनेन कृतं उत्सवस्य उद्घाटनं, 11-14 दिसम्बरपर्यन्तं भविष्यन्ति विभिन्नकार्यक्रमाः

भोपालम्, 11 दिसम्बरमासः (हि.स.)।

मध्यप्रदेशराजधानी-भोपालस्य ऐतिहासिके गौहर-प्रासादे ११–१४ दिसम्बर-पर्यन्तं आयोजितस्य “परी-बाजार् हेरिटेज्-फेस्टिवल्–२०२५” इत्यस्य षष्ठं संस्करणं गुरुवासरे भव्यरूपेण प्रारब्धम्। अस्य उत्सवस्य उद्घाटनं महिला-बालविकास-मन्त्री निर्मला भूरिया इत्यनेन कृतम्।

मन्त्रिणी भूरिया अवदत् यत्, अयं उत्सवः केवलं सांस्कृतिक-आयोजनम् न, किन्तु भोपालस्य ऐतिहासिक-परम्परायाः, संस्कृतिविरासतस्य च तथा महिला-शक्तेः प्रगतेः सजीवम् प्रतिनिधित्वम् अस्ति।

सा अवदत् यत्, १५० वर्षपूर्वं प्रवृत्ता महिला-बाजार्-परम्परा आधुनिकरूपेण पुनर्जीव्यमाना, महिला-अर्थिक-सामाजिक-भूमिकायै नूतनानि अवसराणि दत्ते।

मन्त्रिणी भूरिया २०१७ तः आरभ्य बेगम् ऑफ भोपाल क्लब तथा WESS-संस्थया महिला-सशक्तिकरणक्षेत्रे कृतस्य कार्यस्य प्रशंसां कृत्वा उवाच यत् झुग्गी-बस्तीनां महिलाः शिक्षया, कौशलेन, आरोग्यसेवा-व्यवस्थया, सम्मानित-आजीविकया च योजिताः; एतत् समाजपरिवर्तनस्य शक्तिशाली उदाहरणम्।

सा लाड़ली-लक्ष्मी, बेटी बचाओ–बेटी पढ़ाओ, लाड़ली बहना योजना तथा आंगनवाड़ी–व्यवस्था इत्यादीनां माध्यमेन मातृ-शिशु-पोषणस्य सुदृढ़ीकरणम् उल्लेख्य अवदत् यत् मध्यप्रदेशः महिला-सशक्तिकरणे देशस्य अग्रणी-राज्यम्।

WESS-संस्थया सप्त आंगनवाडी-केन्द्राणि गोदगृहीतानि, तथा २०००-अधिकाः महिलाः युवतयः च शिक्षा-कौशल-आजीविकाभिः सम्बद्धाः।

मन्त्रिणी भूरिया उत्सवे सम्मिलितस्य जनजातीय-आहार-उत्सवस्य विशिष्टतां प्रशंस्य अवदत् यत् जनजातीय-सामाजिक-पाक-परम्परा केवलं स्वाद-विशेषं न दत्ते, किन्तु प्रकृतिसम्मत-जीवनदर्शनस्य अनोख्या अनुभूतिः अस्ति।

सा मुख्यमन्त्री डॉ. मोहन यादवस्य संस्कृति-धरोहर-रक्षणेषु प्रयासान् उद्धृत्य अवदत् यत् “परी-बाजार् हेरिटेज्-फेस्टिवल् संस्कृति, परम्परा, आधुनिक-नारी-शक्ति च एकत्र क्रीड़यति।”

भोपाल-नागरिकाणाम् सहयोगः अस्य उत्सवस्य प्रभावं वर्धयिष्यति, तथा एष उत्सवः महिला-कौशलम्, परिश्रमम्, उपलब्धिश्च नूतनां पहचानं दास्यति।

उत्सवस्थले गौहर-प्रासादे मन्त्री निर्मला भूरिया कला–हस्तशिल्प–जनजातीय-भोजन–स्वयंसिद्धा-प्रदर्शनी निरीक्ष्य महिला-उद्यमिभिः संवादम् अकरोत्।

अस्य कार्यक्रमस्य अन्ते मन्त्री भूरिया १५ विशिष्टान् महिलाः ‘अनुवा सम्मान’ इत्यनेन सम्मानितवती।

तस्मिन् अवसरि अन्येऽपि पुरस्काराः प्रदत्ताः - आर्ट ऑफ पेंटिंग— फैज़ल मतीन, शामिम अहमद लिट्रेरी अवार्ड— इक़बाल मसूद, नज़ीम शमीम स्पोर्ट्स अवार्ड— ज्योति रात्रे, विक्रमजीत सेठी एंटरप्रेन्योर अवार्ड— करण कुकरेजा, मसरूर अनवर मेमोरियल अवार्ड— सदाफ़ सोहेल, कुलभूषण दिल्लौरी स्मृति सम्मान— मोह. साजिद, सुखन-ए-भोपाल अवार्ड— डॉ. नुसरत मेहंदी एवं कीर्ति सूद

कार्यक्रमे नाबार्ड–सीएमडी सी. सरस्वती, बेगम् ऑफ भोपाल क्लब-अध्यक्षा रक्षाँ ज़ाहिद च उपस्थिताः आसीताम्।

हिन्दुस्थान समाचार