Enter your Email Address to subscribe to our newsletters


धर्मशाला, 11 दिसंबरमासः (हि.स.)।रेलमन्त्रिणा अश्विनी वैष्णवेन उक्तं यत् हिमाचलप्रदेशः उत्तरीरेलवे क्षेत्रे अन्तर्भूतः कृतः अस्ति तथा च वर्षे 2025 26 कृते अस्य क्षेत्रस्य 2 सहस्र 216 कोटी रूप्यकाणां बजट् आवंटितः अस्ति, यस्मात् अद्यावधि 919 कोटी रूप्यकाणि व्ययितानि सन्ति। रेलमन्त्रिणा एषा सूचना लोकसभा सदस्यस्य डाक्टर राजीवभारद्वाजस्य प्रश्नस्य उत्तररूपेण लोकसभायां प्रदत्ता।
तेन एव अवोचि यत् अमृतभारतयोजनायाः अन्तर्गतं देशे 1 सहस्र 337 रेलस्थानकानि विकसितानि भवन्ति, यस्मात् हिमाचलप्रदेशस्य पालमपुर, शिमला, बैजनाथपपरोला, अम्ब अम्बोटा इति स्थानकानि अपि सम्मिलितानि। एतेषु पालमपुर, बैजनाथपपरोला, अम्ब अम्बोटा च रेलस्थानकानि विकसितानि सन्ति, शिमलास्थानकं तु मास्टरप्लानिङ् अन्तर्गतं व्यवस्थितं क्रियते।
रेलमन्त्रिणा उक्तं यत् पंचरुखी रेलस्थानके प्लाट्फार्म, शेल्टर, प्रतीक्षागृहम्, पेयजलम्, शौचालयाः, यात्रिणां बैठनव्यवस्था च सम्यक् प्रदत्ताः याः निश्चितमापदण्डेभ्यः अधिकाः भवन्ति। अमृतभारतयोजनायाः अन्तर्गतं प्रतीक्षागृहम्, शौचालयाः, जलकक्षाः, बैठनव्यवस्था, लिफ्ट्, एस्केलेटर रैम्प् इत्यादयः आधुनिकसुविधाः स्टेशनस्थलेषु विकसिताः भवन्ति इति अपि तेनोक्तम्।
तेन एव उद्घोषितं यत् अस्याः योजनायाः अन्तर्गतं वन स्टेशन वन प्रोडक्ट इति कार्यक्रमेण स्टेशनस्थलेषु स्थानीयउत्पादानां विक्री प्रोत्साहितुं यतते तथा दिव्याङ्गजनानां कृते उत्तमानि सुविधाः उपलब्धाः करिष्यन्ति।
----
हिन्दुस्थान समाचार