तिलकक्रीडांगणे नि:शुल्कं योगाभ्यासेन परिवर्तते जनानान्दिनचर्या
औरैया, 11 दिसंबरमासः (हि. स.)।राष्ट्रीयायुषमिशनेन, उत्तरप्रदेशसरकारया च सञ्चालिते योगवेलनेसकेन्द्रे, राजकीयहोम्योपैथिकचिकित्सालये ओरैय्यायाः क्रियाविशेषेषु, प्रतिदिनं प्रातःकाले तिलकक्रीडाङ्गणे निश्शुल्कं सामूहिकयोगाभ्यासः आयोज्यते। प्रातःषट्‌वादना
फोटो


औरैया, 11 दिसंबरमासः (हि. स.)।राष्ट्रीयायुषमिशनेन, उत्तरप्रदेशसरकारया च सञ्चालिते योगवेलनेसकेन्द्रे, राजकीयहोम्योपैथिकचिकित्सालये ओरैय्यायाः क्रियाविशेषेषु, प्रतिदिनं प्रातःकाले तिलकक्रीडाङ्गणे निश्शुल्कं सामूहिकयोगाभ्यासः आयोज्यते। प्रातःषट्‌वादनात्‌ सप्तवादनपर्यन्तं सञ्चरति अस्य योगसत्रस्य क्रमः। अस्मिन् सत्रे नगरात्‌ सह दूरप्रदेशेभ्यः अपि बहवः नार्यः, पुरुषाः, बालकाः च आगत्य स्वास्थ्यलाभं प्राप्नुवन्ति।

योगवेलनेसकेन्द्रस्य वरिष्ठयोगशिक्षकः प्राकृतिकचिकित्सकश्च योगेन्द्रकुमारः मिथुनमिश्र इति ख्यातः, सहभागिनः योगाभ्यासेन सह प्राकृतिकजीवनशैलीं ग्रहीतुम् प्रेरयति। सः वदति— नित्ययोगाभ्यासः, सन्तुलितआहारः, नित्यचर्यायाः च शोधनम्—एव स्वास्थ्यपूर्णजीवनस्य सुलभा प्रभावशाली च कुञ्जी अस्ति।

अतीतानि सप्तवर्षाणि निरन्तरं प्रवृत्तस्य अस्य केन्द्रस्य लाभार्थिनः वदन्ति यत् योगाभ्यासेन न केवलं शारीरकस्वास्थ्ये, अपि तु मानसिके भावनिके च स्वास्थ्ये सकारात्मकपरिवर्तनानि अभवन्।

योगसत्रे सहभागिभ्यः विविधासनानां, प्राणायामस्य, ध्यानस्य, प्राकृतिकशुद्धिप्रक्रियाणां च विस्तृता सूचना दियते। योगेन्द्रमिश्रः तेषां जिह्वां आकृतिं देहबन्धनं च निरीक्ष्य तेषां शारीरिकक्षमतां, आन्तरिकसमस्यानां कारणानि च उपदिशति। जीवनशैलीसम्बद्धाः सूक्ष्मदोषाः एव अधिकांशरोगाणां मूलम् इति अपि ते उपदर्शयन्ति; तेषां समये सुधारः कृत्वा जनाः दीर्घकालं स्वस्थाः भवितुम् अर्हन्ति।

योगशिक्षकः वदति यद् “योगः केवलं व्यायामः न, अपि तु अनुशासितजीवनपद्धतिः। तस्य नित्याभ्यासेन मानसिकतनावः, मधुमेहः, उच्चरक्तदाबः, स्थूलता इत्यादयो बहवः विकाराः निवारयितुं शक्यन्ते।” तिलकक्रीडाङ्गणे सञ्चलति यः एषः निश्शुल्कयोगशिविरः, तस्य लोकप्रियता प्रतिदिनं वर्धते; नूतनाः योगसाधकाः प्रतिदिनं तेन संयोज्यन्ते।

स्थानीयनागरिकाः वदन्ति यत् “सर्वकारीयस्तरे एवम् निरन्तरं नियमितं च कार्यक्रमप्रवर्तनं स्वास्थ्यजागृतेः संवर्धने अतीव महत्वपूर्णम्।” योगवेलनेसकेन्द्रस्य संकल्पः अस्ति यत् भविष्यकाले अधिकं जनमानसं प्रति योगसन्देशः प्रसारितः स्यात्, समाजे स्वास्थ्यपूर्णं सन्तुलितं सुखमयञ्च जीवनं प्रवर्ध्येत।

---------------

हिन्दुस्थान समाचार