मध्‍यप्रदेशे अतिशैत्यं, शहडोलस्य कल्याणपुरम् अभवत् अतिशीतक्षेत्रं, अद्यापि शीततरङ्गस्य सचेतना
- ऋतोः प्रप्रथमं न्यूनतम-तापमानं 3 डिग्री अभिलिखितम् भोपालम्, 11 दिसम्‍बरमासः (हि.स.)। मध्यप्रदेशे अति शीतकालस्य क्रमः निरन्तरं प्रवर्तते। अद्यापि बुधवासरे भीषणशैत्यस्य प्रभावः दृष्टः। शहडोलजनपदस्य कल्याणपुरप्रदेशः हिमशीतलेन कम्पितः। अत्र ऋतौ प्रथ
मौसम (फाइल फोटो)


- ऋतोः प्रप्रथमं न्यूनतम-तापमानं 3 डिग्री अभिलिखितम्

भोपालम्, 11 दिसम्‍बरमासः (हि.स.)। मध्यप्रदेशे अति शीतकालस्य क्रमः निरन्तरं प्रवर्तते। अद्यापि बुधवासरे भीषणशैत्यस्य प्रभावः दृष्टः। शहडोलजनपदस्य कल्याणपुरप्रदेशः हिमशीतलेन कम्पितः। अत्र ऋतौ प्रथमवारं न्यूनतमं तापमानम् त्रयः अंशाः इति निबद्धम्। अद्य गुरुवासरे अपि अनेकप्रदेशेषु शीतलहर्याः विशिष्टा चेतावनी दत्ता।

मौसमविभागस्य मतम् यत् मध्यप्रदेशे सर्वः दिसंबरमासः तीव्रशीतकालः भविष्यति। अस्य कारणं हिमालयप्रदेशे निरन्तरं आगच्छन्तः वेस्टर्न डिस्टरबेंस अर्थात् पश्चिमविक्षोभाः। नूतनः प्रणाली तु त्रयोदशे दिसंबरदिने निर्मास्यते। तस्य प्रभावेन शीतलाः वाताः निरन्तरं वहिष्यन्ति।

मौसमविभागस्य अनुसारं उत्तरभारस्य मैदानीप्रदेशेषु जेट् स्ट्रीम इत्यस्य प्रभावः वर्तते। सा पृथिवीसमतः १२ दशमलव ६ किलोमीटरोपरि २२ किलोमीटरप्रतिघण्टा वेगेन प्रवहति। तेन प्रदेशे तीव्रशीतं भवति।

अतिरिक्तरूपेण जम्मूकश्मीर हिमाचलप्रदेश उत्तराखण्डेषु च हिमवृष्टिः भवति। तेन प्रदेशे शीतलहर्याः स्थिति निरन्तरं वर्तते। अद्य गुरुवासरे भोपाल इन्दौर राजगढ़ शाजापुर सीहोर इत्येषु शीतलहर्याः अलर्ट् प्रकाशितम्।

ततः पूर्वं बुधवासरे भोपालनगरे षष्ठदिनपर्यन्तं शीतलहरिः प्रवहिता। बालाघाटस्य मलाजखण्डप्रदेशे पारा २२ दशमलव ७ अंशान् प्राप्तवान्। नरसिंहपुर रीवा सीधी बैतूल धार इत्यत्र पारा २६ अंशात् न्यूनः आसीत्।

मङ्गलवारबुधवारयोः मध्यरात्रौ अधिकांशनगराणां तापमानं दशांशात् अधः स्थितम्। इन्दौरे ५ दशमलव ४ अंशाः, भोपाले ६ दशमलव ८ अंशाः, ग्वालियरे ९ दशमलव ३ अंशाः, उज्जयिन्यां ८ दशमलव ७ अंशाः, जबल्पुरे ९ दशमलव १ अंशाः निबद्धाः।

प्रदेशे सर्वाधिकं शीतं शहडोलस्य कल्याणपुरे आसीत्। अत्र ऋतौ प्रथमवारं न्यूनतमतापमानम् त्रयः अंशाः निबद्धम्। उमरियायां ५ अंशात् अधः ४ दशमलव ९ अंशाः। एकमेव पर्वतप्रदेशः पचमढी तथा राजगढ़ इत्यत्र ५ दशमलव २ अंशाः।

तथैव—रीवा ५ दशमलव ८, मलाजखण्ड ६ दशमलव ७, मण्डला नौगाँव ७,रायसेन ७ दशमलव ४, छिन्दवाडा ७ दशमलव ८, शिवपुरी ८, सतना ८ दशमलव १, बैतूल ८ दशमलव २, खर्जुराह ८ दशमलव ४, दमोह ८ दशमलव ८, नरसिंहपुर ९, सीधी रतलाम ९ दशमलव २, टीकमगढ गुना ९ दशमलव ५, झाबुआ ९ दशमलव ६ अंशाः निबद्धाः।

हिन्दुस्थान समाचार / अंशु गुप्ता