काशी तमिल संगमः : भागं वोढुं आगतास्तमिलव्यवसायिनः ,शिल्पिनश्च अकुर्वन् बनारस हिन्दू विश्वविद्यालये भ्रमणम्
—भारत कला भवन संग्रहालयं दृष्ट्वा प्रभाविताः,दुर्लभ शिल्प सामग्री दृष्टा वाराणसी,11 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां प्रवर्तमानस्य काशी तमिल् संगमस्य चतुर्थे संस्करणे भागग्राहिणः तमिल्-व्यवसायिनः शिल्पिनश्च गुरुवासरस्य अपराह्णे बीए
बीएचयू में तमिल पेशेवर


—भारत कला भवन संग्रहालयं दृष्ट्वा प्रभाविताः,दुर्लभ शिल्प सामग्री दृष्टा

वाराणसी,11 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां प्रवर्तमानस्य काशी तमिल् संगमस्य चतुर्थे संस्करणे भागग्राहिणः तमिल्-व्यवसायिनः शिल्पिनश्च गुरुवासरस्य अपराह्णे बीएचयू-विश्वविद्यालये भारतकलाभवनस्य अवलोकनं कृतवन्तः। अत्र आयोजिते शैक्षणिकसत्रे भागग्रहणानन्तरं डॉ. निशान्तस्य नेतृत्वे तमिल्-दलम् भारतकलाभवन-संग्रहालयस्य भ्रमणम् अकरोत्, यत्र भारतीयकलानां, ऐतिहासिकप्रतिमानां, दुर्लभशिल्पसामग्र्याः च दर्शनं कृत्वा ते अत्यन्तं प्रभाविताः।

अतिरिक्तरूपेण प्रोफेसर् सुरेशजाङ्गीडस्य नेतृत्वे दलम् दृश्यकलासंकायस्य कला-संग्रहालयस्य अपि अवलोकनम् अकुरुत, यत्र पारम्परिक-समकालीनकलानां विविधरूपाणि प्रदर्शितानि आसन्। एतेभ्यः प्रदर्शनेभ्यः प्रतिभागिनः भारतीयकलात्मकाभिव्यक्तेः व्यापकतां सम्यक् अवगतम्।

अस्य कार्यक्रमस्य संचालनं बीएचयू-विश्वविद्यालयस्य सिद्धिदात्री भारद्वाजेन, नर्सिंग-विद्यालयस्य प्रोफेसर् शिवशङ्कर्याः च कृतम्। दलं बीएचयू-स्थिते सस्नेह-स्वागतेन अत्यन्तं संतुष्टं हर्षितञ्च अभवत्।

हिन्दुस्थान समाचार