कोचीन–जहाज–निर्माण–स्थाने भारतस्य प्रथमं हाइड्रोजन–चालितं नौकायानम् निर्मितम्
— एकवारं इन्धन–पूर्णे कृत्वा अष्ट घण्टापर्यन्तं धावति हाइड्रोजन–जलयानम् वाराणसी, 11 दिसम्बर (हि.स.)।भारतस्य धर्मनगरी वाराणस्यां देशस्य प्रथमं हाइड्रोजन–चालितं जलयानम् गङ्गानद्यां गुरुवासरात् विधिवत् सञ्चरितं जातम्। एतत् जलयानं कोचीन–शिपयार्ड–लिमिट
कार्यक्रम में उपस्थित विशिष्ट जन और केन्द्रीय मंत्री


— एकवारं इन्धन–पूर्णे कृत्वा अष्ट घण्टापर्यन्तं धावति हाइड्रोजन–जलयानम्

वाराणसी, 11 दिसम्बर (हि.स.)।भारतस्य धर्मनगरी वाराणस्यां देशस्य प्रथमं हाइड्रोजन–चालितं जलयानम् गङ्गानद्यां गुरुवासरात् विधिवत् सञ्चरितं जातम्। एतत् जलयानं कोचीन–शिपयार्ड–लिमिटेड् इति संस्थया निर्मितम्।

भारतीय–अन्तर्देशीय–जलमार्ग–प्राधिकरणस्य सूचनां अनुसारं, नगरीय–परिवहने उपयुक्तं 24–मीटर–दीर्घं एतत् कटमरैन–प्रकारस्य जलयानं वातानुकूलिते केबिने पञ्चाशत् यात्रिणः वहितुं समर्थं अस्ति। एतत् 6.5 समुद्र–मील–गत्या सञ्चरति। हाइड्रोजन–इन्धन–कोशः, बैटरी–शक्ति, सौर–ऊर्जा च सम्मिल्य निर्मितम् हाइब्रिड्–ऊर्जा–तन्त्रं तस्य, येन एकवारं हाइड्रोजन–पूर्णे कृत्वा अष्टघण्टानां यावत् सञ्चरणं सम्भवति। एतत् जलयानम् इन्डियन् रजिस्टर ऑफ् शिपिंग् इत्यनेन प्रमाणीक्रियते।

हाइड्रोजन–इन्धन–चालित–जलयानस्य वाणिज्य–सेवा–आरम्भः भारतस्य शुचि–तथा–सतत–समुद्री–परिसंस्थायाः निर्माणे महत्त्वपूर्णं पायः इति निगद्यते।

प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयमन्त्री सर्बानन्द–सोनोवाल इत्येतयोः नेतृत्वे, जलमार्ग–प्राधिकरणम् Maritime India Vision 2030 तथा Maritime Amrit Kaal Vision 2047 अंतर्गतं हरित–प्रौद्योगिकी–उन्नयनं, वैकल्पिक–इन्धनानां प्रोत्साहनं च सम्यक् वहति। प्राधिकरणस्य स्वाम्यं युक्तं एतत् जलयानं 2070 तिथि–पर्यन्तं नेट्–शून्य–उत्सर्जन–लक्ष्यस्य साधनाय भारत–सरकारायाः प्रतिबद्धतां अनुगच्छति।

पायलट्–जलयानं FCV Pilot–01 इत्यस्य सञ्चालनार्थं भारतीय–अन्तर्देशीय–जलमार्ग–प्राधिकरणेन, कोचीन–शिपयार्ड–लिमिटेड्–संस्थया, इन्लैण्ड् एण्ड् कोस्टल् शिपिङ्ग् लिमिटेड्–इति च संस्थया सह त्रिपक्षीयः समझौताः कृतः, यस्मिन् तांत्रिक–सहायता, संचालन, निरीक्षण–व्यवस्था, सुरक्षा–प्रक्रिया, वित्त–नियमाः च निर्दिष्टाः।

वाराणस्यां प्रारब्धं हाइड्रोजन–इन्धन–चालित–जलयानं शहरी–जल–परिवहनाय अनेकान् लाभान् वहति, यथा— यात्रिणां तीर्थयात्रिणां च निर्शब्द–यात्रा, केवलं जल–निःसारणम् (धूम–रहितम् एवं प्रदूषण–मुक्तम्), जलमार्गैः शीघ्र–आवागमनस्य फलरूपेण सड्क–भीड्–कषायः, स्थानीय–पर्यटन–वृद्धिः, रोजगार–सृजना च इत्यादयः।

हिन्दुस्थान समाचार / अंशु गुप्ता