Enter your Email Address to subscribe to our newsletters

वाराणसी, 11 दिसम्बरमासः (हि. स.)।काशीहिन्दुविश्वविद्यालये ‘द डिजिटल् पेडगोजि एजुकेटर्स् फॉर् टुमॉरो’ इति शीर्षकेन सप्तदिवसीयम् अन्ताराष्ट्रियप्रशिक्षणकार्यक्रमम् आयोजितुं नियोजितम् अस्ति।
आई यू सी टी ई इत्यस्य मीडिया–संयोजकः डॉ राजसिंह अवदत् यत् एषः अन्तर्राष्ट्रीयप्रशिक्षणकार्यक्रमः ‘द डिजिटल् पेडगोजि एजुकेटर्स् फॉर् टुमॉरो’ शीघ्रं भविष्यति।
भारतेन विदेशमन्त्रालयेन प्रवर्तितस्य ग्लोबल् साउथ् (साउथ् साउथ् कोऑपरेशन्) अन्तर्गतं भारतीयतांत्रिक आर्थिकसहकारकार्यक्रमस्य (आई टी ई सी) अन्तर्गतं वाराणस्यां काशीहिन्दुविश्वविद्यालयस्य अन्तरविश्वविद्यालयाध्यापकशिक्षाकेन्द्रे (आई यू सी टी ई) अस्य कार्यक्रमस्य आयोजनं भविष्यति।
अयं कार्यक्रमः १५–२१ दिसंबर् २०२५ इत्येभ्यो दिनेभ्यः आयोजितः भविष्यति। सप्तदिवसीयः एषः अन्ताराष्ट्रियप्रशिक्षणकार्यक्रमः चतुर्विंशतिदेशात् आगत्य चत्वारिंशदधिकान् शिक्षकाश्च एकत्र मञ्चे समाह्वानं करिष्यति। तेषु श्रीलंका बेलारूस् कम्बोडिया इक्वाडोर् घाना कजाकिस्तान् केन्या मोरक्को मुझाम्बिक् म्यान्मार् नामीबिया नेपाल रूस् रवाण्डा ताजिकिस्तान् तन्जानिया तुर्कमेनिस्तान् उजबेकिस्तान् वियतनाम् इत्यादयः राष्ट्राणि सम्मिलितानि भविष्यन्ति।
---------------
हिन्दुस्थान समाचार