उत्तर प्रदेशे एसआईआर इत्यस्य समयसीमा 31 दिसंबर यावद्वर्धिता
लखनऊ , 11 दिसंबरमासः (हि.स.)।केन्द्रीयनिर्वाचनआयोगेन उत्तरप्रदेशे विशेषगहननिरीक्षणस्य एस आई आर इत्यस्य अवधिः 31 दिसम्बरपर्यन्तं विस्तारिताऽस्ति। उत्तरप्रदेशस्य मुख्यनिर्वाचनाधिकारी नवदीप रिणवा इत्यनेन आयोगं प्रति पत्रं प्रेषितं यत् मृत, स्थानान्तरि
ेपत


लखनऊ , 11 दिसंबरमासः (हि.स.)।केन्द्रीयनिर्वाचनआयोगेन उत्तरप्रदेशे विशेषगहननिरीक्षणस्य एस आई आर इत्यस्य अवधिः 31 दिसम्बरपर्यन्तं विस्तारिताऽस्ति। उत्तरप्रदेशस्य मुख्यनिर्वाचनाधिकारी नवदीप रिणवा इत्यनेन आयोगं प्रति पत्रं प्रेषितं यत् मृत, स्थानान्तरित, अनुपस्थित मतदातृणां पुनः सत्यापनाय समयवृद्धिः अपेक्ष्यते इति। पूर्वं हि एषा समयसीमा अद्य 11 दिसम्बर एव समाप्तवद् आसीत्। आयोगेन उत्तरप्रदेशस्य सह गुजरात, मध्यप्रदेश, छत्तीसगढ, तमिलनाडु, केन्द्रशासित अण्डमान प्रदेशेषु अपि एस आई आर समयसीमा विस्तारिताऽस्ति।

मुख्यनिर्वाचनाधिकारिणा नवदीप रिणवेण उक्तं यत् उत्तरप्रदेशे अद्यावधि 99 दशमलव 24 प्रतिशत गणनापत्राणां डिजिटाइजेशनकार्यं सम्पन्नम्। डिजिटीकृतेषु गणनापत्रेषु 18 दशमलव 85 प्रतिशत पत्राणि असंग्रहीत इति वर्गे चिह्नितानि, यत्र मृतकाः, स्थायिरूपेण स्थानान्तरिताः, अनुपस्थिताः, द्विगुणप्रविष्टयुताः मतदातृगणाः अन्तर्भवन्ति। अद्यापि 80 दशमलव 29 प्रतिशत गणनापत्राणि मतदातॄणां तेषां च परिवारसदस्यानां हस्ताक्षरैः सह प्रत्यागतानि।

अधिकारिणा उक्तं यत् वर्तमानपरिस्थितौ उत्तरप्रदेशे 18 दशमलव 85 प्रतिशत गणनापत्राणि लगभग 2 दशमलव 91 कोटि मतदातॄणां असंग्रहीतवर्गे अन्तर्भवन्ति। तेषु सर्वाधिकं 8 दशमलव 22 प्रतिशत अर्थात् लगभग 1 दशमलव 27 कोटि मतदाता स्थायिरूपेण स्वनिवासस्थानात् स्थानान्तरिताः सन्ति। अन्ये 2 दशमलव 98 प्रतिशत अर्थात् 45 दशमलव 95 लाख मृतकमतदातृणः, 1 दशमलव 5 प्रतिशतम् अर्थात् 23 दशमलव 69 लाख मतदाता ये पूर्वमेव अन्यस्मिन् प्रदेशे अपि मतदाता आसन्। तथा 0 दशमलव 62 प्रतिशत अर्थात् 9 दशमलव 58 लाख मतदाता ये गणनापत्रं प्राप्त्वा अपि अद्यावत् न प्रत्यापितवन्तः। अपरं 5 दशमलव 49 प्रतिशत अर्थात् 84 दशमलव 73 लाख मतदाता अनुपस्थिताः दृश्यन्ते।

नामावेशार्थं प्रपत्रम् 6

मुख्यनिर्वाचनाधिकारिणा उक्तं यत् ये मतदाता वर्ष 2025 मतदाता सूचीमध्ये न सन्ति, तस्मात् ते गणनापत्रं प्राप्तुं न शेकुः, तेषां नामावेशार्थं फॉर्म 6 पूरयितव्यम्। एवं 1 जनवरीदिने 18 वर्षवयस्का युवकाः अपि मतदातृरूपेण नामाङ्कनाय फॉर्म 6 पूरयिष्यन्ति।

असंग्रहीतमतदातृसूचिः वेबसाइट् मध्ये उपलब्धा

तेन सर्वेषु राजनैतिकदलेषु अपि आह्वानं कृतं यत् मृत, स्थानान्तरित, अनुपस्थित, द्विगुणप्रविष्टयुतानां मतदातृणां सत्यापने सहयोगः दातव्यः। तेन उक्तं यत् सर्वे बूथस्तराधिकारी 12 दिसम्बरपर्यन्तं स्वक्षेत्रेभ्यः बूथस्तरप्रतिनिधिभ्यः असंग्रहीतमतदातॄणां सूचीं प्रदास्यन्ति। जनसुविधार्थं एषा सूची मुख्यनिर्वाचनाधिकारिणः तथा जिला निर्वाचनाधिकारिणः वेबसाइट् मध्ये अपि उपलब्धा

भविष्यति।

---------------

हिन्दुस्थान समाचार