ग्वालियरेऽद्य भविष्यति महिला एवं बाल विकास विभागस्य कार्यशाला
ग्वालियरम्, 12 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरे कार्यस्थानपर स्त्रीणां लैंगिकोत्पीडनस्य निवारण प्रतिषेध प्रतिपोषण अधिनियमस्य 2013 अन्तर्गतमेकदिवसीया कार्यशाला अद्य शुक्रवासरे प्रातः एकादशवादनात् बालभवनस्य सभागारे आयोजिता अस्ति। महिला
महिला एवं बाल विकास विभाग लोगो


ग्वालियरम्, 12 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरे कार्यस्थानपर स्त्रीणां लैंगिकोत्पीडनस्य निवारण प्रतिषेध प्रतिपोषण अधिनियमस्य 2013 अन्तर्गतमेकदिवसीया कार्यशाला अद्य शुक्रवासरे प्रातः एकादशवादनात् बालभवनस्य सभागारे आयोजिता अस्ति।

महिला बालविकासविभागस्य जिलाकार्यक्रमाधिकारिण्या उपासनाराय्या सर्वेषां कार्यालयप्रमुखानां प्रति आग्रहः कृतः यत् ते स्वस्वकार्यालये स्थापिताया आन्तरिकपरिवादसमितेः अध्यक्षं द्वौ सदस्यौ च अस्यां कार्यशालायां उपस्थितुं निर्देशयेयुः।

हिन्दुस्थान समाचार