Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 13 दिसंबरमासः (हि.स.)।
डिजिटल् इण्डिया मिशन इत्यस्य उद्देश्यानुसारं पूर्वीयरेल्वेः मालदा मण्डलः मालदा मण्डलरेलप्रबन्धकस्य मनीषकुमारगुप्तस्य मार्गदर्शने स्वाधिकारक्षेत्रे डिजिटल् टिकटिङ्ग् प्रणालीं प्रोत्साहयितुं निरन्तरं प्रयत्नं कुर्वन् अस्ति।
अद्य त्रिपहाडरेल्वेस्थाने वाणिज्यविभागेन यूटीएस् ऑन् मोबाइल् नामके अनुप्रयोगे डिजिटलचिटिकाजागरूकताकार्यक्रमः आयोजितः, यः मालदा वरिष्ठमण्डलवाणिज्यप्रबन्धकस्य कार्तिकसिंहस्य देखरेखायां सम्पन्नः।
कार्यक्रमस्य समये वाणिज्यनिरीक्षकाः तथा टिकट् परीक्षणकर्मचारिणः यात्रिभिः सह संवादं कृतवन्तः, यूटीएस् ऑन् मोबाइल् अनुप्रयोगस्य माध्यमेन टिकट् डाउनलोड् कर्तुं, पञ्जीकरणं कर्तुं, चिटिकानाम्आरक्षणं कर्तुं च चरणानुसारं प्रक्रियां प्रदर्शितवन्तः। यात्रिभ्यः स्वस्मार्टफोनयोः अनुप्रयोगस्य स्थापने अपि सहायता प्रदत्ता, तथा च तान् स्वयात्रायै सरलां कागदविहीनां सुविधाजनकां च मोबाइल् टिकटिङ्ग् पद्धतिं स्वीकरोतुं प्रोत्साहितवन्तः।
जागरूकताकार्यक्रमे यूटीएस् अनुप्रयोगस्य प्रमुखविशेषताः अपि प्रकाशयिताः।
---------------
हिन्दुस्थान समाचार