गृह मंत्री अमित शाहोऽद्य नक्सलवादे रायपुरे ग्रहीष्यति उपवेशनं, बस्तर ओलंपिकस्य समापन समारोहेऽपि निर्वक्ष्यति भागम्
रायपुरम्, 13 दिसंबरमासः (हि.स.)।राजधानी रायपुरनगरे केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे अत्र नक्सलवादविषये महत्त्वपूर्णां गोष्ठीं करिष्यति। प्रातः ११ वादने एकस्मिन् निजीरिसॉर्ट उपवेशनम् आरभ्यते। मुख्यमन्त्री विष्णुदेवसायः, उपमुख्यमन्त्री विजयशर्म
अमित शाह का स्वागत करते मुख्यमंत्री


रायपुरम्, 13 दिसंबरमासः (हि.स.)।राजधानी रायपुरनगरे केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे अत्र नक्सलवादविषये महत्त्वपूर्णां गोष्ठीं करिष्यति। प्रातः ११ वादने एकस्मिन् निजीरिसॉर्ट उपवेशनम् आरभ्यते। मुख्यमन्त्री विष्णुदेवसायः, उपमुख्यमन्त्री विजयशर्मा तथा वरिष्ठाः अधिकारिणः अपि बैठके उपस्थिताः भविष्यन्ति। नक्सलविरोधी-अभियानस्य अद्यावधि कृतानां कार्याणां समीक्षा करिष्यते।

उपवेशनान्तरम् अमितशाहः बस्तर-ओलम्पिकस्य समापनसमारोहस्य सहभागितार्थं बस्तरं प्रति प्रस्थानं करिष्यति। अद्य अपराह्णे १ वादनं ५० निमेषानन्तरं सः विमानस्थलात् जगदलपुरं प्रति प्रस्थितः भविष्यति। अपराह्णे २ वादनं ३५ निमेषे सः जगदलपुर-विमानस्थले आगमिष्यति। सायंकाले २ वादनं ४५ निमेषात् ४ वादनं ४५ निमेषपर्यन्तं अमितशाहः बस्तर-ओलम्पिकस्य समापनसमारोहে सहभागी भविष्यति। कार्यक्रमसमाप्तेः अनन्तरं सायंकाले ४ वादनं ५५ निमेषे सः जगदलपुरात् दिल्लीं प्रति विमानयात्रां करिष्यति।

अतः पूर्वं शुक्रवासरे निशीथे अमितशाहः रायपुरं प्राप्तवान्। रायपुरस्थिते माना-विमानस्थले मुख्यमन्त्री विष्णुदेवसायः, विधानसभा-अध्यक्षः रमणसिंहः, उपमुख्यमन्त्री विजयशर्मा च तस्य स्वागतं कृतवन्तः। रायपुर-विमानस्थलात् अमितशाहः साक्षात् मेफेयर-होटेलं गतवान्, यत्र सः रात्रिविश्रामं कृतवान्।

गतवर्षे अपि यदा बस्तर-ओलम्पिकस्य आयोजनं कृतम् आसीत्, तदा अमितशाहः समापनसमारोहस्य कृते बस्तरं आगतवान्। तत्र सः मञ्चात् आश्वासनं दत्तवान् यत् आगामिवर्षे अपि सः बस्तर-ओलम्पिके सहभागितुं आगमिष्यति।

-----

हिन्दुस्थान समाचार