Enter your Email Address to subscribe to our newsletters

धाम्नः गङ्गाद्वारपर्यन्तं शिवार्चनम्, महाराणी अहिल्याबायै शिरः प्रणतं कृतम्
वाराणसी, 13 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकायां नगर्यां वाराणस्यां सनातनधर्मावलम्बिनां एकसूत्रेण संयोजकस्य श्रीकाशीविश्वनाथधामस्य लोकार्पणस्य चतुर्थे वार्षिकोत्सवे शनिवासरे “नमामि गङ्गे” संस्थया गङ्गाद्वारात् काशीविश्वनाथस्य तथा माता गङ्गायाश्च आरतीः समाचरिता। अस्मिन् अवसरे राष्ट्रस्य समृद्धये कामना कृता। ततः परं गङ्गाद्वारात् बाबा विश्वनाथाय शिरः प्रणतं कृतम्।
बाबा-धामे विराजमानाय पुण्यश्लोकायै माता अहिल्याबाई होल्करायै शिरसा नमनं कृतम्। गङ्गायाः निर्मलीकरणाय पर्यावरणसंरक्षणाय च बाबात् आशीर्वादः प्रार्थितः। “ॐ जय शिव ओंकारा”, “द्वादश ज्योतिर्लिङ्ग”, “हर हर महादेव शम्भो”, “काशी विश्वनाथ गङ्गे” इत्यादि गगनभेदिभिः घोषैः बाबा-धामः प्रतिध्वनितः।
नमामि गङ्गे काशीक्षेत्रस्य संयोजकः राजेश- शुक्लः अवदत्— काशी देवभूमिः अस्ति। मोक्षस्थली काशी समर्पण-संस्कार-संस्कृतेः मर्मं समावहति। केवलं काश्यां न, अपि तु विश्वेऽपि साधनायाः केन्द्रं बाबा विश्वनाथः एव। द्वादश ज्योतिर्लिङ्गेषु प्रमुखः बाबा विश्वनाथः अनादिकालात् काश्यां गङ्गातटे विराजते। भव्यं नव्यं दिव्यं च काशीविश्वनाथधामः अद्य सांस्कृतिकया दिव्यतया जनान् आकर्षयन् मंत्रमुग्धांश्च करोति। बाबायाः अलौकिकं दरबारं तनुं मनश्च प्रफुल्लयति। सनातनधर्मस्य मान्यतानुसारं पृथिव्या स्वर्गस्य च मध्ये काशी महातीर्थरूपेण मान्यते।
सामान्यजनैः सह देवीदेवताः महापुरुषाश्च अस्यां पवित्रायां धरायां भक्तिभावेन समन्विताः आगत्य पूजनं कृतवन्तः। श्रीकाशीविश्वनाथधामात् अद्य वाराणस्याः आर्थिकं चित्रं परिवर्तितम्। काशीविश्वनाथधामः सनातनधर्मावलम्बिनाम् एकसूत्रीकरणेऽपि महत्त्वपूर्णं कार्यं कृतम्।
कार्यक्रमे साध्वी शर्मा, शिवाङ्गी मिश्र, राहुल सिंह, सरोजिनी यादव, शिवाङ्ग जायसवाल इत्यादयः सहभागी अभवन्
हिन्दुस्थान समाचार / अंशु गुप्ता