तमिलनाडोर्भाजपाध्यक्षो नागेंद्रनोऽद्य दिल्ल्याम् अमित शाहेन सह करिष्यति मेलनम्
चेन्नई, 13 दिसंबरमासः (हि.स.)। तमिलनाडु–भाजपाध्यक्षः नैनार् नागेन्द्रन् अद्य शनिवासरे दिल्ली नगरे केन्द्रीयगृहमन्त्री अमित् शाहेन सह मेलनंकरिष्यति। तमिलनाडुविधानसभानिर्वाचनस्य समीपं आगच्छति इति कारणेन विविधेषु राजनैतिकदलेषु गतिविधयः तीव्राः अभवन
Nainar Nagendran


चेन्नई, 13 दिसंबरमासः (हि.स.)।

तमिलनाडु–भाजपाध्यक्षः नैनार् नागेन्द्रन् अद्य शनिवासरे दिल्ली नगरे केन्द्रीयगृहमन्त्री अमित् शाहेन सह मेलनंकरिष्यति। तमिलनाडुविधानसभानिर्वाचनस्य समीपं आगच्छति इति कारणेन विविधेषु राजनैतिकदलेषु गतिविधयः तीव्राः अभवन्।

वरिष्ठः भाजपानेता च केन्द्रीयगृहमन्त्री अमित् शाहः आगामि 15 डिसम्बर दिनाङ्के तमिलनाडुं आगमिष्यति। तस्य यात्रां दृष्ट्वा राज्यभाजपाध्यक्षः नैनार् नागेन्द्रन् तेन सह भेंटिं कर्तुं दिल्लीं प्राप्तवान्।

नैनार नागेन्द्रन पूर्वमेव एआईएडीएमके दलस्य महासचिवेन एडप्पाड़ी पलनिस्वामीना सह अपि मिलितवान्। 10 डिसम्बर दिनाङ्के सम्पन्नायां एआईएडीएमके कार्यसमितेः बैठके गठबन्धनसम्बद्धनिर्णयान् ग्रहीतुं एआईएडीएमके नेता एडप्पाड़ी पलनिस्वामी इत्यस्मै अधिकारः प्रदत्तः इति निर्णयः कृतः।

अस्मिन् एव काले भाजपाया राज्याध्यक्षः नैनार् नागेन्द्रन् चेन्नैनगरस्य ग्रीन लेन मार्गे स्थितं एआईएडीएमके नेता एडप्पाड़ी पलनिस्वामीस्य गृहम् गत्वा तेन सह साक्षात्कारं कृतवान्। पलनिस्वामीना सह उपवेशनानन्तरं नैनार् नागेन्द्रन् भाजपाया राष्ट्रियनेतृभ्यां जेपी नड्डा तथा पीएल सन्तोष इत्याभ्यां सह दिल्ली नगरे अस्मिन् विषये चर्चां कृतवान्। इदानीं नैनार् नागेन्द्रन् केन्द्रीयगृहमन्त्री अमित् शाहेन सह मेलनंकर्तुं गच्छति।

---------------

हिन्दुस्थान समाचार