विनोदतावडे इत्यस्य उपस्थितौ अद्य भविष्यति भाजपा-प्रदेशाध्यक्षपदस्य नामाङ्कनम्
लखनऊनगरम्, 13 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशे भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षपदाय अद्य शनिवासरे नामाङ्कन-प्रक्रिया भविष्यति। प्रदेशाध्यक्षस्य घोषणा तु रविवासरे करिष्यते। निर्वाचनाय शुक्रवासरे भाजपा-पक्षेण 446 सदस्याणां सूची प्रकाशिताऽभवत्
फाइल फोटो विनोद तावड़े


भाजपा


लखनऊनगरम्, 13 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशे भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षपदाय अद्य शनिवासरे नामाङ्कन-प्रक्रिया भविष्यति। प्रदेशाध्यक्षस्य घोषणा तु रविवासरे करिष्यते। निर्वाचनाय शुक्रवासरे भाजपा-पक्षेण 446 सदस्याणां सूची प्रकाशिताऽभवत्। अस्यां सूच्यां भाजपा-पक्षस्य पञ्च सांसदाः, 26 विधायकाः, 8 विधानपरिषद्-सदस्याः तथा प्रान्तीयपरिषद्-सदस्याः एवं जनपदाध्यक्षाः सम्मिल्य 425 पदाधिकारिणः सन्ति।

भाजपा-पक्षस्य राष्ट्रिय महामन्त्री तथा केन्द्रीय निर्वाचन-पर्यवेक्षकः विनोद-तावडेयः शनिवासरे लखनऊं आगमिष्यति। तस्य उपस्थितौ एव भाजपा-प्रदेशाध्यक्षपदाय प्रदेश-प्रधानकार्यालये अपराह्णे 1 वादनात् आरभ्य 2 वादनपर्यन्तं नामाङ्कनपत्राणि समर्पयिष्यन्ते। सायं 4 वादनात् आरभ्य 5 वादनपर्यन्तं नामाङ्कनपत्राणां प्रत्याहारः कर्तुं शक्यते। प्रदेशाध्यक्षस्य निर्वाचनाय केन्द्रीय निर्वाचनाधिकारी तथा केन्द्रीय मन्त्री पीयूष- गोयलः 14 दिसम्बरदिनाङ्के निर्वाचन-प्रक्रियां पूर्णां कृत्वा प्रदेशाध्यक्षस्य निर्वाचनं सम्पन्नं करिष्यति।

एतस्मात् पूर्वं भाजपा-पक्षस्य राष्ट्रिय संगठनमन्त्री बी.एल्. सन्तोषः तथा प्रदेश महामन्त्री (संगठन) धर्मपालः शुक्रवासरे लखनऊं दल-पक्षस्य वरिष्ठनेतृभिः सह अनेकवारं गोष्ठ्यः कृतवन्तौ। निशायाम् बी.एल्. सन्तोषः मुख्यमन्त्रिणा योगी आदित्यनाथेन सह अपि मेलं कृतम्। नवीनस्य प्रदेशाध्यक्षस्य स्वागत-अभिनन्दनाय अपि विशेषाः व्यवस्थाः क्रियमाणाः सन्ति। सम्पूर्णं लखनऊं भगवामयं कर्तुं च सर्वेषु चतुष्पथेषु महापुरुषाणां प्रतिमानां सज्जा-शोभाकरणं क्रियते। सम्पूर्णे लखनऊ-नगरे भाजपा-पक्षस्य फलकानि ध्वजाश्च स्थाप्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता