छत्तीसगढे महिला सशक्तिकरणाय जातं पर‍िवर्तनकारीकार्यम्
रायपुरम्, 13 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे विकसितभारतस्य तथा विकसितछत्तीसगढस्य संकल्पं पूर्णं कर्तुं गतयोः द्वयोः वर्षयोः महिलासशक्तीकरणं केन्द्रे स्थापयित्वा परिवर्तनकारिकार्याणि सम्पन्नानि सन्ति। मुख्यमन्त्रीणा राज्यं
महिला सशक्तिकरण


महिला सशक्तिकरण


महिला सशक्तिकरण


रायपुरम्, 13 दिसंबरमासः (हि.स.)।मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे विकसितभारतस्य तथा विकसितछत्तीसगढस्य संकल्पं पूर्णं कर्तुं गतयोः द्वयोः वर्षयोः महिलासशक्तीकरणं केन्द्रे स्थापयित्वा परिवर्तनकारिकार्याणि सम्पन्नानि सन्ति। मुख्यमन्त्रीणा राज्यं राष्ट्रियपटलपरि एकं आदर्शमोडलरूपेण प्रतिष्ठापितम्। सरकारेण महिलानां सम्मानं सुरक्षा स्वास्थ्यं आजीविका निर्णयक्षमता च नीतिनां मूलाधारं कृत्वा सामाजिकआर्थिकपरिवर्तनस्य नवीना दिशा निर्धारिता।

मुख्यमन्त्री सायः वदति यत् अस्माकं संकल्पः अस्ति यत् छत्तीसगढस्य प्रत्येकाः महिलाः आत्मनिर्भराः सुरक्षिताः सम्मानितजीवनं च यापयेयुः। गतयोः द्वयोः वर्षयोः महिलासशक्तीकरणं केन्द्रे कृत्वा ये कार्याणि कृतानि तानि विकसितस्य समृद्धस्य च छत्तीसगढस्य दृढां नीवां निर्मन्ति। सरकारः महिलानां स्वास्थ्यं आजीविकां सुरक्षां सहभागितां च सर्वासु नीतिषु केन्द्रे स्थापयित्वा अग्रेऽपि योजनाः कार्यान्वयितुं प्रतिबद्धा अस्ति।

शासनस्य महत्वाकाङ्क्षिणी महतारीवन्दनयोजना महिलानां आर्थिकस्वातन्त्र्याय नवीना दृढतां प्रदत्तवती। प्रधानमन्त्री नरेन्द्रमोदिना १० मार्च २०२४ तमे दिने आभासरूपेण आरब्धायाः अस्याः योजनायाः अन्तर्गतं राज्यस्य प्रायः सप्ततिलक्ष विवाहितमहिलाभ्यः प्रतिमासं १००० रूप्यकाणां प्रत्यक्षसहायता प्रदीयते। अद्यावधि द्वाविंशतिः किश्तिषु १४३०६ कोटि ३३ लक्ष रूप्यकाणां राशि तेषां बैंकखातेभ्यः प्रेषिता। महिलानां पोषणाय स्वास्थ्याय आर्थिकदृढतायै च ५५०० कोटिरूप्यकाणां प्रावधानं दर्शयति यत् महिलाकल्याणं राज्यस्य विकासयात्रायाः केन्द्रबिन्दुः अस्ति।

महिलाभ्यः सम्पत्तौ अधिकारं दातुं निबन्धनशुल्के एकप्रतिशतस्य छूटिः इत्यादयः निर्णयाः ताभ्यः न केवलं आर्थिकं अपि तु सामाजिकसशक्तीकरणमपि प्रदत्तवन्तः। अस्मिन्नेव क्रमे ३६८ महतारीसदनानां निर्माणं स्वीकृतं, यत्र प्रशिक्षणं परामर्शः कौशलविकासः सहायकसेवाश्च एकस्मिन् छत्रे उपलब्धाः भविष्यन्ति। मितानिनां आङ्गनवाडीकार्यकर्तॄणां मानदेयस्य प्रोत्साहनराशेः च आनलाइनभुगतानस्य आरम्भेन सरकारेण सुशासनं पारदर्शिता च अधिकं सुदृढीकृतम्।

ग्रामीणवञ्चितवर्गीयमहिलानां पर्यन्तं योजनालाभं प्रापयितुं राज्यसरकारेण स्वसहायसमूहानां नवानि अवसराणि दत्तानि। षट्सु जिल्लासु बस्तर दन्तेवाडा बलौदाबाजार कोरबा रायगढ सूरजपुर इत्यत्र रेडीटूईट कार्यं महिलासमूहेभ्यः समर्पितम्। अपरं च द्विचत्वारिंशत्सहस्र अष्टशत अष्टसप्ततिः महिलासमूहेभ्यः १२९४६ कोटि ६५ लक्ष रूप्यकाणां रियायतीऋणं प्रदत्तं, येन ताः आर्थिकतया सुदृढीकृताः। निर्माणश्रमिककुटुम्बानां महिलानां कन्यानां च कृते मुख्यमन्त्रिणो नोनिसशक्तीकरणयोजना, सीवनयन्त्रसहायता, दीदीईरिक्शायोजना इत्यादिभिः आजीविकायाः नूतनाः विकल्पाः उपलब्धाः कृताः। मिनीमातामहतारीजतनयोजना गर्भवतीश्रमिकमहिलाभ्यः स्वास्थ्यपोषणआर्थिकसुरक्षायाः दृढं आधारं ददाति।

कन्यानां विवाहे साहाय्यं दातुं मुख्यमन्त्रीकन्याविवाहयोजनां अधिकं सशक्तीकृत्य ५०००० रूप्यकसहायतायाः मध्ये ३५००० रूप्यकाणि साक्षात् कन्यायाः खातॆ निक्षेपणीयानि इति निर्णयः कृतः। वर्षे २०२४ २५ मध्ये ८००० कन्यानां विवाहार्थं ४०० कोटिरूप्यकाणां प्रावधानं कृतम्। ग्रामीणअर्थव्यवस्थायां महिलानां महत्त्वपूर्णसहभागितां सुनिश्चितुं एनआरएलएम अन्तर्गतं लखपतिदीदी ड्रोनदीदी इत्यादिपहलानां कृते ८०० कोटिरूप्यकाणि निर्धारितानि, याः देशे महिलाउद्यमितायाः नवान् आयामान् स्थापयन्ति।

महिलासुरक्षाक्षेत्रे छत्तीसगढेन अनेकानि ऐतिहासिकानि पादपदानि स्थापितानि। नवाबिहानयोजना घरेलुहिंसापीडितमहिलाभ्यः कानूनी चिकित्सकीय मनोसामाजिकसहायां प्रददाति। छत्तीसगढः देशस्य प्रथमं राज्यं अभवत् यः सखी वनस्टॉपकेन्द्रस्य डिजिटलरूपं निर्माय तस्य कृते मानकप्रक्रियां अपि लागू कृतवान्। १८१ महिलाहेल्पलाइन तथा डायल ११२ इत्ययोः एकीकृतसञ्चालनं संकटसमये शीघ्रकार्यान्वयनं सुनिश्चितं कृतवान्। तथैव सुखदसहारायोजनायाः अन्तर्गतं द्विलक्ष अष्टादशसहस्राधिकाभ्यः विधवा परित्यक्तमहिलाभ्यः प्रतिमासं ५०० रूप्यकाणां आर्थिकसहायता प्रदीयते।

किशोरीणां स्वास्थ्यशिक्षयोः कृते शुचिता योजनायाः अन्तर्गतं द्विसहस्र विद्यालयेषु नैपकिन्वेण्डिङ्गयन्त्राणि स्थापितानि, त्रिलक्षाधिकाभ्यः किशोरीभ्यः स्वच्छतासामग्री च प्रदत्ता। उच्चमाध्यमिकछात्राभ्यः सायकिलवितरणार्थं ५०० कोटिरूप्यकाणां प्रावधानं कृतम्। नवरायपुरे २०० कोटिरूप्यकव्ययेन युनिटीमॉलनिर्माणं महिलासमूहानां उत्पादान् राष्ट्रियान्तरराष्ट्रियापणेन सह संयोजयितुं महत्त्वपूर्णा पहलाऽस्ति। जशपुरजिलायाः आदिवासीमहिलाभिः सञ्चालितं जशप्योरब्राण्डं वैश्विकपरिचयं प्रापयितुं प्रयत्नाः अपि महिलाभ्यः नूतनान् अवसरान् उद्घाटयन्ति।

महिला बालविकासमन्त्री लक्ष्मीराजवाडे अवदत् यत् महिलाः आर्थिकतया स्वावलम्बिन्यः कर्तुं तासां कृते सुरक्षितं सम्मानजनकं च वातावरणं निर्मातुं अस्माकं प्राथमिकता अस्ति। महतारीवन्दनयोजनात् आरभ्य नवाबिहान लखपतिदीदी शुचिता महतारीसदन इत्यादयःप्रयत्नाः महिलानां समग्रविकासस्य मार्गं प्रशस्तयन्ति। आगामिकाले विभागः एतानि कार्यक्रमाणि अधिकप्रभावशीलतया विस्तारयिष्यति येन प्रत्येकाः महिलाः स्वप्नानि साकारयितुं शक्नुवन्ति।

वर्षे २०२५ २६ मध्ये महिला बालविकासविभागाय ८२४५ कोटिरूप्यकाणां राजस्वं दत्त्वा सरकारेण स्पष्टः सन्देशः दत्तः यत् महिलाकल्याणं सुरक्षा च तस्याः सर्वोच्चा प्राथमिकता अस्ति। मुख्यमन्त्री सायस्य नेतृत्वे गतयोः द्वयोः वर्षयोः छत्तीसगढे ये परिवर्तनाः अभवन् ते प्रमाणयन्ति यत् महिलाः केन्द्रे स्थापयित्वा कृतः विकासः न केवलं सुशासनस्य परिचायकः, अपि तु प्रगतिशीलसमाजस्य आधारशिला अपि। छत्तीसगढः अद्य महिलासशक्तीकरणक्षेत्रे नवीं दिशां नवीं आशां नवं परिवर्तनं च प्रतीकत्वेन उदितः अस्ति।

---------------

हिन्दुस्थान समाचार