Enter your Email Address to subscribe to our newsletters

सोनीपतम्, 13 दिसंबरमासः (हि.स.)।हरियाणाराज्ये सुशासनाय नवीं गतिं दातुं मुख्यमन्त्री सुशासनसहयोगी कार्यक्रमः २.० इत्यस्य शुभारम्भः डिसेम्बरमासस्य पञ्चदशतमे दिने सोनीपत् नगरे मुख्यमन्त्री नायबसिंहसैनीना क्रियते। अस्य कार्यक्रमस्य माध्यमेन राज्ये प्रशासनिकपारदर्शितां वर्धयितुं, शासकीयसेवानां समयबद्धप्रदानं सुनिश्चितुं तथा योजनानां लाभं अन्तिमव्यक्तिपर्यन्तं प्रापयितुं प्रभावी उपायाः स्वीकरिष्यन्ते।
उपायुक्तः सुशीलसारवानः अवदत् यत् अस्मिन् चरणे सप्तविंशतिः सुशासनसहयोगिनः चयनिताः सन्ति, ये प्रदेशस्य सर्वेषु जनपदेषु नियुक्ताः सन्तः प्रशासनिकसुधारान्, नवाचारान् तथा नागरिककेन्द्रितशासनं सुदृढं करिष्यन्ति। अस्य कार्यक्रमस्य कृते मुख्यमन्त्रीकार्यालयस्य अधिकारी यशपालयादवः परियोजनानिदेशकत्वेन नियुक्तः अस्ति। अस्याः पहलायां ग्लोबल् विलेज् फाउण्डेशन् तथा ऋषिहुड् विश्वविद्यालयः सहयोगीसंस्थारूपेण कार्यं करिष्यतः।
सः अपि अवदत् यत् मुख्यमन्त्री सुशासनसहयोगी कार्यक्रमस्य आरम्भः वर्षे २०१६ मध्ये अभवत्, यस्य सकारात्मकाः परिणामाः दृष्टिगोचराः अभवन्। अधुना नूतनचरणे अस्य कार्यक्रमस्य विस्तारः अधिकव्यापकः परिणामोन्मुखश्च कृतः अस्ति, येन भूमिस्तरे प्रशासनिकप्रक्रियासु सुधारः स्यात् तथा सामान्यजनाः शीघ्रं सेवाः प्राप्नुयुः।
कार्यक्रमस्य सिद्धतां परिशीलयितुं शनिवासरे उपायुक्तः पुलिस् तथा प्रशासनिकाधिकारिभिः सह ऋषिहुड् विश्वविद्यालयस्य भ्रमणं कृतवान्। तेन कार्यक्रमस्थलस्य, यातायातव्यवस्थायाः, वाहनस्थानव्यवस्थायाः, सुरक्षाप्रबन्धानां तथा अन्यव्यवस्थानां समीक्षा कृत्वा सम्बन्धितविभागेभ्यः आवश्यकनिर्देशाः प्रदत्ताः। प्रशासनं कार्यक्रमस्य सुचारु, सुरक्षितं तथा सुव्यवस्थितं सम्पादनं कर्तुं समन्वयेन कार्यं करिष्यति इति आश्वासनं दत्तम्।
---------------
हिन्दुस्थान समाचार