Enter your Email Address to subscribe to our newsletters

- चलच्चित्रे कृत्रिम-बुद्धेः (एआई) प्रभावः, सङ्गीतं च दिवङ्गतः अभिनेतुः धर्मेन्द्रस्य जीवनयात्रायाः अछूता पक्षाः च चर्चायाम् समक्षम् आगमिष्यन्ति।
छिन्दवाडा, 13 दिसम्बरमासः (हि.स.)। म.प्र. शासनस्य संस्कृति विभागेन सुप्रतिष्ठित-चित्रविमर्शकयोः श्रीराम ताम्रकरस्य सुनीलमिश्रस्य च योगदानम् अधिष्ठाय द्विदिवसीय-स्मृति-प्रसङ्ग समारोहः अद्य शनिवासरे छिन्दवाडा स्थित शासकीय-मेडिकल-कॉलेज-अडिटोरियम, खजरी-मार्गे आयोज्यते। समारोहे चित्रपट-प्रदर्शनस्य सह संगाने, सिनेमायां कृत्रिम-बुद्धेः (एआई) प्रभावः, दिवङ्गतः अभिनेता धर्मेन्द्रस्य जीवनयात्रायाः अछूताः पक्षाः च व्याख्यानैः नाट्यप्रस्तुतिभिः च विमर्श्यन्ते।
संस्कृति-संचालकः एन.पी. नामदेवः अवदत् – प्रथम-दिने अद्य 3.00 वादने “कारवाँ” चित्रपटस्य प्रदर्शनं क्रियते। नासिर् हुसैन् निर्देशिते अस्मिन चित्रपटे आशा पारेख्, जीतेंद्रः, अरुणा ईरानी च हेलन च मुख्य-पात्रे भूमिका निर्वहति। सायं 5.30 वादने द्वौ सत्रे व्याख्यानम् आयोज्यते। प्रथम-सत्रे “आर.के. स्टूडियो-चित्रपटानां संगीतमय यात्रा” विषयकं वरिष्ठ-लेखक-चित्रनिर्माता डॉ. राजीव श्रीवास्तवः, देहली, व्याख्यानं दास्यति। द्वितीय-सत्रे वरिष्ठ-लेखकः पूर्व-प्रशासनिक- अधिकारी पंकज रागः, दिल्ली, “नासिर् हुसैन् च तस्य चित्रपटानां सदाबहार-संगीतम्” विषयकं उद्बोधनं दास्यति। प्रथम-दिने अन्तिमप्रस्तुतिः सायं 7.00 वादने नाटक “गजमोक्ष” भविष्यति। स्व. सुनील मिश्रस्य लिखितं नाटकं विनोद कुमार मिश्रा निर्देशयिष्यति।
संस्कृति-संचालकः नामदेवः अवदत् – 14 दिसंबरे 3.00 वादने “सत्यकाम” चित्रपटस्य प्रदर्शनं भविष्यति। ऋषिकेशमुखर्जी इत्यस्य निर्देशिते अस्मिन् चित्रपटे धर्मेन्द्रः, संजीव कुमारः, शर्मिला टैगोर् च अशोक कुमारः मुख्य-पात्रे भूमिका निर्वहन्ति। सायं 5.30 वादने इन्दौरस्थः ताम्रकरः “ए.आई. च सिनेमायाः भविष्यं – कला च तकनीक” विषयकं उद्बोधनं दास्यति। अनन्तरं इन्दौर-स्थः अरुण ठाकरे “धर्मेन्द्रः – संघर्षैः सुपरस्टार पर्यन्तम्” विषयकं उद्बोधनं दास्यति। सायं 7.00 वादने नाट्य-प्रस्तुति “ऐसे रहो की धरती” मंचितम् भविष्यति। स्व. सुनील मिश्रस्य लिखितं नाटकम् आनंदप्रकाशमिश्रः निर्देशयति।
हिन्दुस्थान समाचार / Dheeraj Maithani