हरमनप्रीत कौरस्य सम्माने स्टैंड इति नामकरणे सति मंधाना अददाद्वर्धापनानि स्वीयनायकाय
नवदिल्ली, 13 दिसंबरमासः (हि.स.)।भारतीयमहिलाक्रिकेटदलस्य उपनायिका स्मृति मंधाना दलकप्तानीं हरमनप्रीत कौरं अभिनन्दितवती। एषा शुभेच्छा तस्याः तस्मिन् विशेषावसरे प्राप्ता, यदा पञ्जाबक्रिकेटसंघेन महाराजा यादविंद्र सिंह अन्तरराष्ट्रीयक्रिकेटमैदाने हरमनप्
हरमनप्रीत कौर और स्मृति मंधाना


नवदिल्ली, 13 दिसंबरमासः (हि.स.)।भारतीयमहिलाक्रिकेटदलस्य उपनायिका स्मृति मंधाना दलकप्तानीं हरमनप्रीत कौरं अभिनन्दितवती। एषा शुभेच्छा तस्याः तस्मिन् विशेषावसरे प्राप्ता, यदा पञ्जाबक्रिकेटसंघेन महाराजा यादविंद्र सिंह अन्तरराष्ट्रीयक्रिकेटमैदाने हरमनप्रीत कौरनाम्ना एकस्य स्टैण्डस्य उद्घाटनं कृतम्। अयं समारोहः गुरुवासरे आयोजितः आसीत्।

अस्मिन् अवसरे क्रीडांगते द्वौ नूतनौ स्टैण्डौ उद्घाटितौ। एकः स्टैण्डः भारतीयमहिलाक्रिकेटदलस्य कप्तान्या हरमनप्रीत कौरनाम्ना नामाङ्कितः, अपरः तु पूर्वभारतीयसर्वगुणसम्पन्नक्रिकेटखिलाडी युवराज सिंहनाम्ना समर्पितः।

उद्घाटनसमारोहे पञ्जाबराज्यस्य मुख्यमन्त्री भगवंत मान तथा पीसीए अध्यक्षः अमरजीत मेहता उपस्थितौ आस्ताम्। तदतिरिक्तं बीसीसीआई अध्यक्षः मिथुन मन्हास तथा पञ्जाबस्य राज्यपालः गुलाब चन्द कटारिया अपि कार्यक्रमे सम्मिलिताः।

बीसीसीआई अस्य समारोहस्य दृश्यपटं स्वस्य आधिकारिकसामाजिकमाध्यमेषु प्रकाशितवान्। तं दृश्यपटं स्वस्य इन्स्टाग्राम् स्टोरीमध्ये साझीकुर्वन्ती स्मृति मंधाना अलिखत्— “अभिनन्दनं हरमनप्रीत। महिलाक्रिकेटस्य कृते अयं दिवसः अत्यन्तं विशेषः अस्ति, अहं च त्वयि गर्वं अनुभवामि।”

दृश्यपटे हरमनप्रीत कौर अस्य सम्मानस्य विषये स्वस्य हर्षं व्यक्तवती। सा अवदत् यत् अयं क्षणः तस्याः जीवनस्य अत्यन्तं भावुकः तथा गर्वपूर्णः अस्ति। यस्मिन् क्रीडाङ्गणे सा क्रिकेटक्रीडां आरब्धवती, तस्मिन्नेव स्थाने तस्याः नाम्ना स्टैण्डनिर्माणं तस्याः कृते स्वप्नस्य सत्यीकरणसदृशं अस्ति इति सा अवदत्। अस्य कृते सा पञ्जाबक्रिकेटसंघस्य आभारं अपि प्रकटितवती।

उल्लेखनीयम् अस्ति यत् समीपे एव हरमनप्रीत कौरस्य कप्तान्याः नेतृत्वे भारतीयमहिलाक्रिकेटदलः इतिहासं रचितवान्। नवी मुम्बईस्थे डी वाई पाटिल स्टेडियममध्ये भारतदलः दक्षिण आफ्रिकादलं द्विपञ्चाशत् धावनैः पराजित्य स्वस्य प्रथमां वरिष्ठां आईसीसी महिलाक्रिकेटट्रॉफीं जितवान्।

हरमनप्रीत कौर एतादृशं सम्मानं प्राप्नुवन्ती तृतीया भारतीयमहिलाक्रिकेटाक्रीडी अस्ति। पूर्वं झूलन गोस्वामी तथा मिताली राज इत्येतयोः नाम्ना अपि देशस्य प्रमुखक्रिकेटक्रीडांगणेषु स्टैण्ड इत्येते निर्मिताः सन्ति। विशेषतया उल्लेखनीयम् यत् हरमनप्रीत कौर अद्यापि सक्रियक्रिकेटखिलाडी सती अपि एतत् सम्मानं प्राप्नुवन्ती प्रथमाऽस्ति।

अस्मिन् कार्यक्रमे हरमनप्रीत कौरसह अमनजोत कौर तथा हरलीन देओल इत्येताभ्यां एकादशलक्षरूप्यकाणां पुरस्कारराशिः प्रदत्ता। तदनन्तरं विश्वकपविजयी भारतीयदलस्य क्षेत्ररक्षणप्रशिक्षकाय मुनिश बाली इत्यस्मै पञ्चलक्षरूप्यकाणां नगदपुरस्कारः अपि प्रदत्तः।

------------

हिन्दुस्थान समाचार