Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 दिसंबरमासः (हि.स.)।अर्जेण्टीनादेशं सन् 2022 फीफा विश्वकपविजयं प्रापयितुं नेतृतं कृतवान् कप्तानः तथा अष्टवारं बैलन डी’ओर पुरस्कारविजेता लियोनेल मेसी पुनः एकवारं भारतभूमौ आगतः अस्ति। मेसी शनिवासरे सन् 2025 तमे वर्षे डिसेम्बर मासस्य त्रयोदशतमे दिने प्रातःकाले कोलकातानगरं प्राप्तवान्, एतेन सह तस्य बहुप्रतीक्षितः ‘GOAT टूर ऑफ इंडिया’ इति भ्रमणकार्यक्रमः आरब्धः।
प्रायः चतुर्दशवर्षाणां अनन्तरं भारतं आगतः मेसी अस्मिन् भ्रमणे देशस्य चत्वारि प्रमुखनगराणि—कोलकाता, हैदराबाद, मुम्बई तथा नवी दिल्ली—पर्यटिष्यति। अस्य भ्रमणस्य अवसरः फुटबॉलप्रेमिणां कृते अनेके विशेषकार्यक्रमाः आयोजिताः भविष्यन्ति।
मेसी सह तस्य क्लबदलस्य इन्टर मियामी इत्यस्य प्रसिद्धौ खिलाडिनौ रोड्रिगो डी पॉल तथा लुइस सुआरेज अपि भारतभ्रमणे उपस्थितौ स्तः। मेसीदर्शनाय प्रशंसकेषु अत्यन्तः उत्साहः दृश्यते, विशेषतः कोलकातानगरे, यत् भारतस्य फुटबॉलराजधानी इति अपि कथ्यते।
मेसीस्य अयं भ्रमणः भारतीयफुटबॉलक्रीडनस्य इतिहासे अत्यन्तं महत्त्वपूर्णः मन्यते, तथा च एतेन देशे फुटबॉलक्रीडायाः नवजीवनप्राप्तेः आशा वर्धते।
---------------
हिन्दुस्थान समाचार