Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालस्य राज्यपालः डॉ. सी.वी. आनन्दः बोसः कोलकातायां युवभारती-क्रीडाङ्गणे लियोनल् मेस्सिनः कार्यक्रमकाले जातां भगदडां तथा अव्यवस्थां प्रति गहनं शोकं चिन्तां च व्यक्तवान्। वारदातानन्तरं शनिवासरस्य अपराह्णे निर्गत-वक्तव्ये राज्यपालः एतत् क्रीडाप्रेमिणां कृते अत्यन्तं दुःखदं दिनम् इति निर्दिश्य अवदत् यत् कार्यक्रमे योजना-अभावात् तथा प्रबन्धन-दौर्बल्यात् न केवलं दर्शकानां, अपि तु मुख्यमन्त्रिणः तथा जनसामान्यस्य अपेक्षाणामपि आघातः अभवत्।
राज्यपालः स्पष्टतया अवदत् यत् अस्मिन् सम्पूर्णे घटनाक्रमे आयोजकानां प्रायोजकानां च उत्तरदायित्वं सर्वाधिकम् अस्ति; तथापि आरक्षक-विभागः अपि राज्यसर्वकारस्य, जनतायाः तथा मुख्यमन्त्रिणः प्रति स्वकर्तव्ये विफलः अभवत्। तस्य कथनम् अस्ति यत् एषा स्थितिः कोलकातायाः क्रीडाप्रेमिणां कृते अत्यन्तं दुःखदा अस्वीकार्याच अस्ति। डॉ. सी.वी. आनन्दः बोसः राज्यसर्वकाराय बहूनि निर्देशानि निर्गतवान्। तेषु आयोजकानां प्रायोजकानां च गिरफ्तारी, टिकट-क्रेतॄणां प्रति धन-प्रत्यर्पणम्, स्टेडियमस्य सार्वजनिक-सम्पत्तेः च यत् क्षतिः अभवत् तस्य कृते आयोजकेषु शुल्कारोपणम्, सम्पूर्णस्य प्रकरणस्य न्यायिक-अन्वेषणम्, लापरवाहीं कृतवतां आरक्षक-अधिकारीणां निलम्बनम्, तथा भविष्ये महतां कार्यक्रमाणां कृते मानक-कार्य-प्रणाल्याः (एस्.ओ.पी.) प्रवर्तनं च अन्तर्भवन्ति।
तदनन्तरं राज्यपालः एतदपि सुझावं दत्तवान् यत् दर्शकानां कृते बीमा-योजना निर्मीयताम्, यस्य प्रीमियम् आयोजकैः प्रायोजकैश्च वहनीयः स्यात्।
राज्यपालः अवदत् यत् केचन निज-प्रायोजकाः मेस्सिनः नाम्नः दुरुपयोगं कृत्वा स्वनिज-लाभाय एतत् कार्यक्रमं आयोजितवन्तः, येन सामान्य-जनानां तथा क्रीडाप्रेमिणां भावनाः अपमानिताः। सः अवदत् यत् आरक्षक-विभागेन कार्यक्रमस्य सुचारु-व्यवस्था सुनिश्चितीकरणीयम् आसीत्, किन्तु केषाञ्चन व्यक्तीनां निज-स्वार्थ-भारेण तत् उपेक्षितम्। राज्यपालः १२ दिसम्बर-दिने एव राज्यसर्वकाराय लिखिते पत्रे प्राप्त-शिकायतानां उल्लेखं कृत्वा अवदत् यत् अनेके पादकन्दुक-प्रेमिणः अत्यधिक-टिकट-मूल्यस्य कारणेन स्वप्रियं क्रीडकं मेस्सिं द्रष्टुं अशक्ताः अभवन्। सः एतदपि चिन्तां व्यक्तवान् यत् केवलं महतीं धनराशिं व्ययकर्तारः एव मेस्सिं द्रष्टुं शक्नुवन्ति स्म, यदा तु सामान्य-जनात् एषः अवसरः अपहृतः।
तथैव सम्पूर्णे घटनाक्रमे स्थितिं सामान्यां कर्तुम् आरक्षकैः दण्डप्रहारः अपि कृतः, येन दर्शकेषु अधिककोपः प्रसृतः। राज्यपालः राज्यसर्वकारं प्रति आग्रहं कृतवान् यत् आयोजकेषु विरुद्धं कठोरा कार्यवाही क्रियताम्, सामान्य-जनस्य प्रति जातस्य उत्पीड़नस्य विषये विशेषं ध्यानं दीयताम्।
राज्यपालः अवदत् यत् महतां कार्यक्रमाणां कृते पूर्वमेव दर्शकानां प्रशंसकानां च संख्यायाः पूर्वानुमानं कृत्वा यथोचित-सुरक्षा-प्रबन्धनस्य व्यवस्था कर्तव्या आसीत्। सः स्पष्टं अवदत् यत् भविष्ये एतादृशानां घटनानां पुनरावृत्तिं निरोद्धुं कठोराः उपायाः अवश्यमेव स्वीकरिष्यन्ते।----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता