शिमलायां भारतीयजनता-पक्षस्य नव-प्रदेशीय-कार्यालयस्य शिलान्यासः, राष्ट्रियाध्यक्षः जे.पी. नड्डा भूमिपूजनं कृतवान्
शिमला, 13 दिसंबरमासः (हि.स.)। भारतीयजनता-पक्षस्य राष्ट्रियाध्यक्षः जगत्-प्रकाशः नड्डा शनिवासरे शिमलानगरे मजठाई-क्षेत्रे प्रस्तावितस्य भारतीयजनता-पक्षस्य प्रदेशीय-कार्यालयस्य विधिवत् शिलान्यासं कृतवान्। विमानतल-मार्गे डी.ए.वी. विद्यालयस्य समीपे आयोज
शिमला में भाजपा के प्रदेश कार्यालय का शिलान्‍यास करते भाजपा के राष्‍टीय अध्‍यक्ष जेपी नडडा


शिमला, 13 दिसंबरमासः (हि.स.)। भारतीयजनता-पक्षस्य राष्ट्रियाध्यक्षः जगत्-प्रकाशः नड्डा शनिवासरे शिमलानगरे मजठाई-क्षेत्रे प्रस्तावितस्य भारतीयजनता-पक्षस्य प्रदेशीय-कार्यालयस्य विधिवत् शिलान्यासं कृतवान्। विमानतल-मार्गे डी.ए.वी. विद्यालयस्य समीपे आयोजिते अस्मिन् कार्यक्रमे कार्यकर्तॄणां बहुसंख्यक-संनिधिः आसीत्। नड्डायाः आगमनेन सह कार्यकर्तॄभिः तेषां सस्नेहं स्वागतं कृतम्, सम्पूर्णे परिसरे उत्साहपूर्णं वातावरणं दृष्टिगोचरं अभवत्।

शिलान्यासात् पूर्वं नड्डा प्रायः पञ्चचत्वारिंशत्-निमेष-पर्यन्तं प्रवृत्ते विधि-विधान-सम्पन्ने पूजाविधौ सहभागित्वं अकरोत्। पञ्चभिः पण्डितैः वैदिक-मन्त्र-उच्चारणेन सह शिलान्यास-प्रक्रिया सम्पूर्णा कृता। ततः पश्चात् तेन शिलान्यास-फलकस्य अनावरणं कृतं तथा कलश-स्थापनामपि अकरोत्। अस्मिन् अवसरे कार्यक्रम-स्थले भक्तेः अनुशासनस्य च वातावरणं प्रबलीभूतम्।

भूमि-निरीक्षण-काले भारतीयजनता-पक्षस्य प्रदेशाध्यक्षः डॉ. राजीवः बिन्दलः राष्ट्रियाध्यक्षाय प्रस्तावितस्य प्रदेशीय-कार्यालय-भवनस्य योजनां विषये विस्तृतां सूचनां दत्तवान्। सः भवनस्य संरचनां, विविध-कार्यालय-व्यवस्थां तथा संगठनात्मक-गतिविधीनां कृते तस्य उपयोगितां विस्तारतः अवर्णयत्। अस्मिन् प्रसङ्गे नड्डा भवनस्य कार्यात्मक-आवश्यकतानां तथा भविष्ये संगठन-विस्तारं दृष्ट्वा अपेक्षितान् परामर्षान् अददात्।

शिलान्यास-कार्यक्रमानन्तरं नड्डा कार्यकर्तृभिः सह अनौपचारिक-सम्भाषणमपि अकरोत्। चायापाने सम्पन्नायां चर्चायां संगठनस्य सुदृढीकरणं, आगामि-राजनीतिक-कार्यक्रमाः तथा कार्यकर्तॄणां भूमिकाः इति विषयेषु विचार-विमर्शः कृतः। नड्डा अवदत् यत् नवः प्रदेशीय-कार्यालयः भारतीयजनता-पक्षस्य संगठनाय नूतनां दिशां नूतनाम् ऊर्जां च प्रदास्यति, तथा कार्यकर्तॄणां कृते सः एकं सुदृढं केन्द्रं रूपेण कार्यं करिष्यति।

अस्मिन् अवसरॆ भारतीयजनता-पक्षस्य प्रदेश-प्रभारी श्रीकान्तः शर्मा, सह-प्रभारी संजयः टण्डनः, प्रदेशाध्यक्षः डॉ. राजीवः बिन्दलः, विपक्ष-नेता जयरामः ठाकुरः, पूर्व-केंद्रीय-मन्त्री अनुरागः ठाकुरः, संगठन-महामन्त्री सिद्धार्थनः, प्रदेश-उपाध्यक्षाः बिहारीलालः शर्मा, सतपालः सत्ती, सुरेशः कश्यपः, राजीवः भारद्वाजः इत्यादयः अनेकॆ वरिष्ठ-नेतारः तथा बहुसंख्यकाः कार्यकर्तारः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता