Enter your Email Address to subscribe to our newsletters

कोकराझारः (असमः), 13 दिसम्बरमासः (हि.स.)। अखिलभारतीयमारवाड़ीसम्मेलनस्य अन्तर्गतं पूर्वोत्तरप्रदेशीयमारवाड़ीसम्मेलनस्य (पूप्रमास) तृतीयाप्रान्तीय कार्यकारिणी सभाऽऽगामि १४ दिसम्बरतिथौ गोसाईगांवस्थिते मारवाड़ीधर्मशालायाम् आयोजिता भविष्यति। एषा महत्त्वपूर्णा सभा मारवाड़ीसम्मेलनस्य गोसाईगांवशाखायाः आतिथ्ये आयोज्यते।
अस्यां प्रान्तीयस्तरीयायां कार्यकारिणीसभायाम् उत्तर-पूर्वक्षेत्रस्य विविधेभ्यः राज्येभ्यः सम्मेलनस्य पदाधिकारीणः, प्रतिनिधयः, सदस्यगणाश्च सहभागं करिष्यन्ति। सभाकाले संगठनस्य गतिविधीनां समीक्षाः, भाविकार्यक्रमाणां रूपरेखाः, सामाजिक-, शैक्षणिक- तथा सांस्कृतिकविकाससम्बद्धेषु विषयेषु विस्तृताः चर्चाः सम्भाव्यन्ते। एतत्सह संगठनं अधिकं सशक्तं जनोपयोगि च कर्तुं सम्बन्धिनः महत्त्वपूर्णनिर्णयाः अपि स्वीकरिष्यन्ते।
उल्लेखनीयम् अस्ति यत् पूर्वोत्तरप्रदेशीयमारवाड़ीसम्मेलनस्य एषा तृतीयाप्रान्तीयकार्यकारिणी सभा संगठनात्मकदृष्ट्या अत्यन्तं महत्त्वपूर्णा मन्यते। अस्याः माध्यमेन क्षेत्रे मारवाड़ीसामाजस्य सामाजिकसमन्वयः, सेवाकार्याणि तथा विकासात्मकाः गतिविधयः नूतनां दिशां प्राप्स्यन्तीति अपेक्षा वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता