कोलकातायां द्वयोः वैश्विकसितारयोः विशेषमेलनम्—पुत्रेण अबरामेण सह शाहरुख् खानः मेस्सिना सह मिलितवान्
कोलकाता, 13 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालस्य राजधानी कोलकातायां तदा एकः स्मरणीयः क्षणः दृष्टिगोचरः अभवत्, यदा अन्ताराष्ट्रिय-पादकन्दुक-क्रीडायाः महातारा लियोनल् मेस्सी च चलचित्रजगतः बादशाहः शाहरुख् खानः आमने-सामने समागतौ। शनिवासरे युवभारती-क्रीड
मेसी शाहरुख


कोलकाता, 13 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालस्य राजधानी कोलकातायां तदा एकः स्मरणीयः क्षणः दृष्टिगोचरः अभवत्, यदा अन्ताराष्ट्रिय-पादकन्दुक-क्रीडायाः महातारा लियोनल् मेस्सी च चलचित्रजगतः बादशाहः शाहरुख् खानः आमने-सामने समागतौ। शनिवासरे युवभारती-क्रीडाङ्गणे आयोज्यमानस्य कार्यक्रमस्य पूर्वं, क्रीडाङ्गणसमीपे स्थिते एकस्मिन् आतिथ्यगृहे उभयोः दिग्गजानां मेलनम् अभवत्। अस्मिन् अवसरें मेस्सी स्मितपूर्वकं हस्तं प्रसार्य शाहरुख् खानम् अभिवादितवान्, तस्य लघुपुत्रं अब्राम् खानम् अपि स्नेहपूर्वकं स्वसमीपं आहूतवान्। उभौ अपि संयुक्ततया छायाचित्राणि अपि गृहीतवन्तौ।

शुक्रवासरस्य रात्रौ विलम्बेन प्रायः २:३० वादने लियोनल् मेस्सी स्वस्य निकटमित्रेण दीर्घकालीन-सहचरः लुइस् सुवारेज् तथा रोड्रिगो डी पॉल इत्येताभ्यां सह कोलकातां प्राप्तवान्। विमानस्थानात् सः सीधैव आतिथ्यगृहं गतवान्। तदेव शनिवासरे प्रातःकाले शाहरुख् खानः स्वपुत्रेण अब्रामेण सह कोलकातां प्राप्तवान्, प्रातःकाले एव आतिथ्यगृहं गत्वा मेस्सिना सह साक्षात्कारं कृतवान्।

अस्य विशेषस्य साक्षात्कारस्य पहल कार्यक्रमस्य मुख्य-आयोजकेन शतद्रु दत्तेन कृता। परिचयकाले मेस्सी शाहरुख् खानं हार्दिकतया स्वागतं कृतवान्, किञ्चित्कालं पर्यन्तं परस्परं कुशलक्षेमं अपि पृष्टम्। ततः परं उभयोः तारकयोः सह छायाचित्राणि अपि गृहीतानि। छायाचित्रेषु मेस्सी-शाहरुखयोः मध्ये लुइस् सुवारेज् उपस्थितः आसीत्, अपि च रोड्रिगो डी पॉल अपि अस्य ऐतिहासिकस्य उपस्थितेः अंशः अभवत्। अस्मिन् अवसरें राज्यस्य दमकल-मन्त्री सुजीत् बोसः अपि उपस्थितः आसीत्।

ध्यातव्यमस्ति यत् लियोनल् मेस्सी प्रायः १४ वर्षाणां अनन्तरं कोलकाताम् आगतः। तस्य आगमनं प्रति नगरे महती उत्सुकता दृष्टिगोचरः अभवत्। विमानस्थानात् आरभ्य आतिथ्यगृहं यावत्, ततः कार्यक्रमस्थलं यावत् समर्थकानां विशालः जनसमूहः समवेतः आसीत्। शाहरुख् खानस्य मेस्सिनः च एतत् मेलनं क्रीडाजगतः सिने-जगतः च द्वयोः महत्तमानां मुख्यानाम् एकस्मिन् एव रूपे एकत्र आनयत्, यत् प्रशंसकैः दीर्घकालं यावत् स्मरणीयं भविष्यति।---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता