मेसी-कार्यक्रमे अभवत् अव्यवस्थां प्रति मुख्यमन्त्रिणा क्षमायाचना कृता, अन्वेषण-समितिः गठिता
कोलकाता, 13 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालस्य राजधानी कोलकातायां युवभारती-क्रीडाङ्गणे अन्ताराष्ट्रिय-पादकन्दुक-क्रीडकस्य लियोनेल् मेस्सी इत्यस्य कार्यक्रमस्य समये शनिवासरे तीव्रा अव्यवस्था प्रसृता। कार्यक्रमस्य निर्धारित-समयात् पूर्वमेव तत्र उपस्
ममता


कोलकाता, 13 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालस्य राजधानी कोलकातायां युवभारती-क्रीडाङ्गणे अन्ताराष्ट्रिय-पादकन्दुक-क्रीडकस्य लियोनेल् मेस्सी इत्यस्य कार्यक्रमस्य समये शनिवासरे तीव्रा अव्यवस्था प्रसृता। कार्यक्रमस्य निर्धारित-समयात् पूर्वमेव तत्र उपस्थिताः दर्शकाः उपद्रवं कर्तुं आरब्धवन्तः। दीर्घिकासु (गैलरीषु) भग्नतां कृतः, क्रीडाङ्गणे च अग्निदाहस्य प्रयासः अपि अभवत्। अस्य सम्पूर्णस्य घटनाक्रमस्य अनन्तरं असुरक्षायाः कारणात् अन्ताराष्ट्रिय-क्रीडकः मेस्सी कार्यक्रमं अपूर्णमेव त्यक्त्वा निर्गन्तुं विवशः अभवत्। एतेन सुरक्षा-व्यवस्थायाः विषये गम्भीराः प्रश्नाः उद्भूताः।

युवभारती-क्रीडाङ्गणे पूर्वाह्णे ११.३० वादने मेस्सीस्य वाहनम् आगतम्। मेस्सिना सह तस्य पुरातन-सहचरौ लुइस् सुवारेज् तथा रोड्रिगो डी’पॉल अपि उपस्थितौ आसताम्। कार्यक्रम-स्थले पादकन्दुक-प्रेमिणां विशालः जनसमूहः समागतः आसीत्, किन्तु यदा मेस्सी वाहनात् अवतरितवान् तदा तं परिवेष्टयितुं प्रयासः कृतः। अस्य कारणात् दीर्घिकासु स्थिताः दर्शकाः न केवलं मेस्सीं, अपि तु सुवारेजं डी’पॉलं च सम्यक् द्रष्टुं न शशकुः। अस्मिन् एव काले जनसमूहमध्ये केचन जनाः “वी वाण्ट् मेस्सी” इति घोषान् कर्तुं आरब्धवन्तः।

अनेनैव क्रमेन स्थितिः नियन्त्रणात् बहिः अगच्छत्, क्रुद्धाः दर्शकाः दीर्घिकास्थिताः आसनानि भङ्क्त्वा क्रीडाङ्गणे क्षेप्तुम् आरब्धवन्तः। क्रीडाङ्गणे स्थापितानां बहूनां मण्डपानां दाहाय अपि प्रयासः कृतः। अस्मिन् अवसरे आरक्षकाः स्थितिं नियन्त्रणं कर्तुं प्रयत्नवन्तः, किन्तु एतादृशीं विशालां भीडं नियन्त्रणं कर्तुं अत्यन्तं दुष्करम् अभवत्।सूत्रैः अवगतं यत् द्विसहस्रात् आरभ्य ढाईसहस्रपर्यन्तं जनाः फेन्सिङ् भङ्क्त्वा क्रीडाङ्गणे प्रविष्टवन्तः। क्रुद्धदर्शकैः क्रीडाङ्गणस्य गोलपोस्ट-जालानि भङ्क्तानि, टनल-आवरणस्य (छायांकनस्य) च क्षतिः कृता। स्थितिं नियन्त्रणं कर्तुं आरक्षकैः अस्मिन् अन्ताराष्ट्रिय-आयोजने अपि दण्ड-प्रयोगः कृतः।

अव्यवस्थायाः कारणात् मेस्सी निर्धारितं कार्यक्रमं सम्पूर्णं अकृत्वैव क्रीडाङ्गणात् निर्गन्तुं विवशः अभवत्। क्रीडाङ्गणे स्थापिताः प्रायोजकानां बैनराः विदीर्णाः, केषुचित् स्थलेषु आसनानि अपि क्षिप्तानि।अस्य सम्पूर्णस्य घटनाक्रमस्य अनन्तरं मुख्यमन्त्री ममता बनर्जी सामाजिक-माध्यम-मञ्चे ‘एक्स्’ इत्यत्र स्वप्रतिक्रियां व्यक्तवती। सा अलिखत्— “शनिवासरस्य प्रातःकाले सॉल्टलेक्-क्रीडाङ्गणे या अव्यवस्था अभवत्, तया अहं स्तब्धा विचलिता च अस्मि। अस्य दुर्भाग्यपूर्णस्य घटनायाः कृते अहं लियोनेल् मेस्सीं, सर्वान् क्रीडा-प्रेमिणः, तेषां समर्थकान् च प्रति क्षमायाचना करोमि।” सा अवदत् यत् घटनायाः अन्वेषणार्थं विशेषा अन्वेषण-समितिः तया गठिता अस्ति।

अन्वेषण-समितेः अध्यक्षतां सेवानिवृत्तः न्यायाधीशः असीम् कुमारः रायः करिष्यति। अस्यां समितौ राज्यस्य मुख्यसचिवः, अतिरिक्त-मुख्यसचिवः, गृहविभागस्य तथा पर्वतीय-विभागस्य अधिकारिणः अपि समाविष्टाः भविष्यन्ति। मुख्यमन्त्री अवदत् यत् एषा समितिः घटनायाः गहनां समीक्षा करिष्यति, दोषिणां अभिज्ञानम् करिष्यति, भविष्ये एतादृशीनां घटनानां पुनरावृत्तिः न भवेत् इति आवश्यकाः अनुशंसाः च प्रदास्यति।

स्थले उपस्थितैः जनैः कथितं यत् मेस्सीस्य कार्यक्रमस्य आरम्भः उत्साहेन उमङ्गेन च अभवत्। दर्शकाः दीर्घकालात् मेस्सीं द्रष्टुं प्रतीक्षमाणाः आसन्, किन्तु भीडस्य उत्साहः नियन्त्रणात् बहिः गत्वा अनन्तरं हिंसकः अभवत्। अस्याः अव्यवस्थायाः कारणात् क्रीडाङ्गणस्य वातावरणं रणक्षेत्र-सदृशं जातं, कार्यक्रमः च समयात् पूर्वमेव समाप्तः कर्तव्यः अभवत्।मुख्यमन्त्री ममता बनर्जी अस्मिन् विषये सर्वान् क्रीडा-प्रेमिणः प्रति क्षमायाचना कृत्वा एतदपि आश्वासनं दत्तवती यत् अन्वेषण-समितिः पूर्णया निष्पक्षतया पारदर्शितया च कार्यं करिष्यति।------------------

हिन्दुस्थान समाचार / अंशु गुप्ता