मेसी स्वप्रतिमायाः अनावरणं कृतवान्, अवदत्— “कोलकातायाम् आगमनं मम कृते सम्मानस्य विषयः
कोलकाता, 13 दिसम्बरमासः (हि.स.)। अन्ताराष्ट्रियपादक्षेपक-जगतः प्रसिद्धः दिग्गजः क्रीडकः लियोनल् मेसी शनिवासरे स्वस्य विशालायाः प्रतिमायाः अनावरणं कृतवान्। विशेषतया, मेसी स्वयम् होटले स्थित्वा आभासीय-माध्यमेन (वर्चुअल् माध्यमेन) अस्याः प्रतिमायाः उद
मेसीव प्रतिमा


कोलकाता, 13 दिसम्बरमासः (हि.स.)। अन्ताराष्ट्रियपादक्षेपक-जगतः प्रसिद्धः दिग्गजः क्रीडकः लियोनल् मेसी शनिवासरे स्वस्य विशालायाः प्रतिमायाः अनावरणं कृतवान्। विशेषतया, मेसी स्वयम् होटले स्थित्वा आभासीय-माध्यमेन (वर्चुअल् माध्यमेन) अस्याः प्रतिमायाः उद्घाटनं कृतवान्। स्वप्रतिमां दृष्ट्वा मेसी भावुकः अत्यन्तं च प्रसन्नः दृश्यते स्म।

अस्य विशेषस्य प्रतिमा-अनावरण-कार्यक्रमे बालीवुड-अभिनेता शाहरुख् खानः स्वपुत्रेण अबराम् खाननेन सह उपस्थितः आसीत्। मेसीस्य उपस्थित्या तथा शाहरुख् खानस्य आगमनेन एषः आयोजनः अधिकं विशेषः अभवत्। मेसी इत्यस्य अस्याः विशालायाः प्रतिमायाः विषये विश्वव्यापिनी चर्चा आरब्धा अस्ति। विदेशेषु स्थिताः मेसी-समर्थक-मण्डलाः प्रतिमायाः चित्राणि सामाजिक-माध्यमेषु प्रसारितवन्तः। प्रसिद्धः क्रीडा-पत्रकारः फाब्रिजियो रोमेनो अपि प्रतिमायाः चित्रं प्रसार्य ताम् ऐतिहासिकीम् इति वर्णितवान्। यद्यपि प्रतिमायाः किञ्चित् दर्शनं पूर्वमेव जातम्, तथापि अस्मिन् अवसरे प्रथमवारं मेसी स्वयमेव स्वप्रतिमां ददर्श। स्वप्रतिक्रियायां मेसी अवदत् यत् अस्य सम्मानस्य कृते सः अत्यन्तं कृतज्ञः अस्ति। कोलकातायाम् आगमनं तस्य कृते गौरवस्य आनन्दस्य च विषयः इति सः अवदत्। समर्थकैः सह एतस्य क्षणस्य परामर्शं करणं विशेषं मन्यते स्म, तथा च अस्मिन् नगरे अर्जेन्टिना-फुटबाल-दलस्य प्रति गाढाः भावनाः प्रेम च विद्यमानम् इति उक्तवान्। स्वप्रतिमायाः शिल्पकौशलं भव्यतां च सः मुक्तकण्ठेन प्रशंसितवान्।

कार्यक्रमे शाहरुख् खानस्य उपस्थितिरपि चर्चाविषयः अभवत्। मेसीस्य नगरागमनात् एकदिवसपूर्वमेव शाहरुख् खानः कोलकातां प्राप्तवान्। सः पूर्वमेव सामाजिक-माध्यमेषु संकेतं दत्तवान् यत् अस्मिन् समये सः नाइट् राइडर्स् कृते न, अपि तु मेसीस्य कृते नगरं आगमिष्यति— तथा च सः स्ववचनं निर्वाहितवान्।

मेसीस्य एकं दृश्यं प्राप्तुं समर्थकानाम् उत्साहः निरन्तरं वर्धते स्म। रात्र्याः आरभ्य एव प्रशंसकाः विमानतलस्य, होटेलस्य, ततः परं च क्रीडाङ्गणस्य बहिः समवेताः अभवन्। मेसीस्य क्रीडाङ्गण-प्राप्तेः पूर्वमेव दीर्घाः पङ्क्तयः जाताः, यत् मेसीप्रति जनानाम् उत्कटं उत्साहं सूचयति।

हिन्दुस्थान समाचार / अंशु गुप्ता